This page has been fully proofread once and needs a second look.

विषमालंकारः ३८
 
विषमं वण्येते यत्र घटनाऽननुरूपयोः ।
क्वेयं शिरीषमृद्वङ्गी क्व तावन्मदनज्वरः ॥ ८८ ॥
 
अत्रापि मृदुत्वेनातिदुःसहत्वेन चाननुरूपयोरङ्गनामदनज्वरयोर्घटना । यथावा --
 
अभिलषसि यदीन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः
पुनरपि सकृदब्धौ मज्ज संक्षालयाङ्कम् ।
सुविमलमथ बिम्बं पारिजातप्रसूनैः
सुरभय वदनो चेत्त्वं क्व तस्या मुखं क्व ॥
 
पूर्वत्र वस्तुसती घटना । अत्रच चन्द्रवदनलक्ष्म्योस्तर्किता घटनेति भेदः ८८
 
विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् ।
कीर्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥ ८९ ॥
 
अत्र कारणगुणप्रक्रमेण विरुद्धाच्छ्यमाद्धवलोत्पत्तिः । कार्यकारणयोर्निर्वर्त्यनिर्वर्तकत्वे पञ्चमी विभावना । विलक्षणगुणशालित्वे त्वयं विषम इति भेदः ॥ ८९ ॥
 
अनिष्टस्याप्यवा[^१]प्तिश्च तदिष्टार्थसमुद्यमात्
भक्ष्याशयाहिमञ्जूषां दृष्ट्वाखुस्तेन भक्षितः ॥ ९० ॥
 
[commentary]
 
वदप्रतीतेः । अतएव न विरोधाभासोऽपि । विशेषोक्तिकथनं त्वत्रासंगतमेव । नहि गोत्रोद्धारविषयकप्रवृत्तिरूपकारणसत्त्वेऽपि गोत्रोद्धाररूपस्य कार्यस्यानुत्पत्तिरिह प्रतिपाद्यते, किंतु विरुद्धकार्योत्पत्तिरेवेति विभावनीयम् ॥ ८६ ॥ ८७ ॥ इत्यसंगतिप्रकरणम् ॥ ३७ ॥
 
विषममिति ॥ परस्परमानुरूप्यरहितयोः पदार्थयोर्यत्र घटना संबन्धो वर्ण्यते तत्र विषमनामालंकारः । संबन्धश्च संयोगादिः उत्पाद्योत्पादकभावश्चेति सर्वप्रकारसाधारणमेतल्लक्षणं बोध्यम् ॥ अभिलषसीति ॥ अङ्कं कलङ्कम् । संक्षालय प्रक्षालय । अथ प्रक्षालनानन्तरम् । नो चेत्तस्य मुखं क्व त्वं क्व इति वदेत्यन्वयः । वस्तुसती वस्तुगत्या विद्यमाना ॥ चन्द्रेति ॥ चन्द्रश्च वदनलक्ष्मीश्च तयोरित्यर्थः ॥ ८८ ॥ विरूपकार्यस्येति ॥ कारणविलक्षणस्वरूपस्येत्यर्थः । कृपाणिका खड्गः ॥ प्रक्रमेणेति ॥ प्रक्रमः परिपाटी । स्वजातीय कार्यगुणोत्पादकत्वरूपा विरुद्धा कार्यसंपत्तिरिति पञ्चमविभावनाप्रकारेणाभेदमाशङ्क्याह -- कार्येति ॥ अयं विषमः उक्तविषमालंकारप्रभेदः ॥ ८९ ॥ तृतीयप्रकारमाह -- अनिष्टस्यापीति । अपिर्भिन्नक्रमः । इष्टार्थसमुद्यमादनिष्टस्यावाप्तिरपि च त
 
[^१] 'अवाप्तिश्चेत्तदिष्टार्थं'.
 

कुव० ११