This page has been fully proofread once and needs a second look.

१०४
 
कुवलयानन्दः । [ असंगत्यलंकारः ३७
 
मोहं जगत्रयभुवामपनेतुमेत-

दादाय रूपमखिलेश्वर देहभाजाम् ।

निःसीमकान्तिरसनीरधिनामुनैव

मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥
 

 
अत्राद्योदाहरणे कङ्कणादीनामन्यत्र कर्तव्यत्वं प्रसिद्ध मिति नोपन्यस्तम् । भ
वतिना भावनारूपा अन्यत्र कृतिराक्षिप्यत इति लक्षणानुगतिः ॥८६॥८७॥
 

 
[commentary]
 
कारचना । करपल्लवेषु तिलयुक्तं कं जलमेव ललाटभूषणमिति ॥ मोहमिति ॥
हे अखिलेश्वर, जगत्रयवर्तिनां देहधारिणां मोहमपनेतुमेतत् रूपं कृष्णशरीरमा-
दाय मर्यादातिक्रान्तकान्तिरूपरससमुद्रेणामुनैव रूपेण सुन्दरस्त्रीणां मोहं प्रवर्ध-
यसीत्यन्वयः ॥ अत्रेति ॥ अनयोर्मध्य इत्यर्थः । आद्योदाहरणे इत्यस्य लक्ष-
णानुगतिरित्यत्रान्वयः । भवतिना भवत्यर्थेन । भवनेनेति यावत् । भावनारूपा
भवनप्रयोजकव्यापाररूपा । यत्तु अन्यत्र करणीयस्येत्याद्यसंगतिप्रकारद्वयान्तर
कथनमयुक्तम् । अपारिजातामित्युदाहरणे पारिजातराहित्यचिकीर्षारूपकारणस्य
कार्येण पारिजातराहित्येन वैयधिकरण्योपनिबन्धनेन प्राथमिकासंगतितो वैलक्ष-
ण्यानुपपत्तेः । आलम्बनाख्य विषयतासंबन्धनचिकीर्षायाः सामानाधिकरण्येन
कार्यमात्रं प्रति हेतुत्वात् । एवं नेत्रेषु कङ्कणमित्यादौ कङ्कणत्वनेत्रालंकारत्वयो-
विरुद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं गोत्रोद्धारप्रवृत्तो-
ऽपीत्युदाहरणे विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावने'त्युक्त विभावनाप्रकारेणैव
गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । मोहमित्यादावपि मोहनिर्वर्तकत्व-
मोहजनकत्वयोर्विरुद्धयोरेकत्र वर्णनाद्विरोधाभास एवेति कैश्चिदुक्तं तदसंगतम् ।
उक्तसंबन्धेन चिकीर्षाया हेतुत्वासिद्धेः । नहि यदधिकरणे कार्यचिकीर्षा तदधि-
करणमन्तर्भाव्योक्तसंबन्धेन चिकीर्षायाः कार्यहेतुत्वं तान्त्रिकसंसम्मतं युक्तं वा ।
अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्र करणेन व्यभिचारात् । अतएवैवंवि-
धवैयधिकरण्यस्य विरुद्धत्वादपि न प्राथमिकासंगत्यन्तर्भावसंभवः । वस्तुतस्तु -
' विषं जलधरैः पीतं मूर्चिछच्छिताः पथिकाङ्गनाः' इत्यत्रेव नात्र कार्यकारणवैयधि-
करण्यप्रयुक्तो विच्छित्तिविशेषोऽपि त्वन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेति
सहृदयमेव प्रष्टव्यम् । एवं नेत्रेषु कङ्कणमित्यत्र सत्यपि विरोधाभासेऽन्यत्र
चमत्कारित्वेन कॢप्तालंकारभावादन्यत्र करणरूपासंगतिरपि प्रतीयमाना न शक्या
निराकर्तुम् । एवं गोत्रोद्धारप्रवृत्तोऽपीत्युदाहरणे गोत्रोद्धारविषयकप्रवृत्तेर्गोत्रोद्भ-
भेदरूपकार्य विरुद्धत्वाद्विरुद्धा कार्यसंपत्तिर्विभावनेत्यपि न
 
युक्तम् । गोत्रो-
द्धारप्रवृत्तेर्गोत्रोद्भेदनिवर्तकत्वाभावेन तद्विरुद्धत्वाभावात् । कथंचित्तदभ्युपगमे-
ऽप्यन्यत्कार्यं कर्तुं प्रवृत्तेन तद्विरुद्धकार्यान्तरकरणरूपासंगतिरपि मोहं जगत्रय -
भुवामित्यादौ चमत्कारित्वेन लब्धात्मिका न निवारयितुं शक्यते । नचा-
त्रापि मोहनिवर्तकान्मोहोत्पत्तेः सैव विभावनेति वाच्यम् । मोहनिवर्तकस्य सिद्ध-