This page has not been fully proofread.

असंगत्यलंकारः ३७ ] अलंकारचन्द्रिकासहितः ।
 
१०३
 
विरुद्ध मिति विशेषणाद्यत्र कार्यहेत्वोर्भिन्नदेशत्वं न विरुद्धं तत्र नासं-
गतिः । यथा-
भ्रूचापवल्लीं सुमुखी यावन्नयति वक्रताम् ।
तावत्कटाक्षविशिखैभिद्यते हृदयं मम ॥ ८५ ॥
अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ।
अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८६ ॥
अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः ।
गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराऽकरोः ॥ ८७ ॥
 
अत्र कृष्णं प्रति शऋस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र कर-
णीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन
वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुनैः कृतमिति द्विविधापि
श्लेषोत्थापिता । यथावा-
त्वत्खड्ग खण्डितसपत्नविलासिनीनां
 
भूषा भवन्त्यभिनवा भुवनैकवीर ।
नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली
 
चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥
 
दमयन्तीं प्रति हंसोक्तिः । हे दमयन्ति, त्वं तदीयां नलसंबन्धिनीं दूरमत्यन्तं
दीर्घा संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजस्रं निरन्तरमारोहसि । स पुनर्न-
लोऽधिकं श्वासान्वर्षति मुञ्चतीति यत्तव ध्यानात्त्वन्मयतां त्वत्स्वरूपतामवाप्ये-
त्यन्वयः । अत्र चतुर्थप।देनासंगतिसमाधानम् ॥ भ्रूचापेति ॥ भ्रूचापवल्लीं
भ्रूवरूपधनुर्हताम् । यावदिति परिमाणार्थम् । वक्रतां नयति । आकर्षतीति
यावत् । तावत्परिमाणं हृदयं मिद्यत इत्यर्थः । अत्र हृदयभेदधनुराकर्षणयोः
कार्यकारणयोर्भिन्न देशत्वमेव दृष्टमिति नासंगतिरलंकारः ॥ ८५ ॥ अन्यत्रेति ॥
अन्यत्र कर्तव्यस्य वस्तुन स्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति-
रित्यनुषज्यते । तथा अन्यत्कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणं तृतीया
असंगतिः । अपगतमरिजातं यस्यास्तां द्यां स्वर्गम् । तथा पारिजाततरुरहिताम-
कृथाः कृतवान् । एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोऽपि
त्वं गोत्राणां पर्वतानामुद्भेदं दलनमकरोः कृतवानित्यर्थः । श्लेषोत्थापिता
लेषमूलका भेदाध्यवसायोत्थापिता ॥ यथावा ॥ त्वत्खङ्गेति ॥ हे भुवनैक-
वीर चोलदेशाधिप सिंहसदृश, तव खड्गेन खण्डिता ये सपत्नाः शत्रवस्त-
द्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति । यथा नेत्रेषु कङ्कणं
विलयं भवतीत्यनुषङ्गः । अथेति समुच्चये । ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि-
१ 'कृतिश्च यत्'. २ 'पुराइकरोत् '.