This page has been fully proofread once and needs a second look.

विरुद्धमिति विशेषणाद्यत्र कार्यहेत्वोर्भिन्नदेशत्वं न विरुद्धं तत्र नासंगतिः । यथा --
 
भ्रूचापवल्लीं सुमुखी यावन्नयति वक्रताम् ।
तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम ॥ ८५ ॥
 
अन्यत्र करणीयस्य ततोऽन्यत्र कृति[^१]श्च सा ।
अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८६ ॥
 
अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः ।
गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पु[^२]राऽकरोः ॥ ८७ ॥
 
अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि श्लेषोत्थापिता । यथावा --
 
त्वत्खड्गखण्डितसपत्नविलासिनीनां
भूषा भवन्त्यभिनवा भुवनैकवीर ।
नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली
चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥
 
[commentary]
 
दमयन्तीं प्रति हंसोक्तिः । हे दमयन्ति, त्वं तदीयां नलसम्बन्धिनीं दूरमत्यन्त दीर्घां संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजस्रं निरन्तरमारोहसि । स पुनर्नलोऽधिकं श्वासान्वर्षति मुञ्चतीति यत्तव ध्यानात्त्वन्मयतां त्वत्स्वरूपतामवाप्येत्यन्वयः । अत्र चतुर्थपदेनासंगतिसमाधानम् ॥ भ्रूचापेति ॥ भ्रूचापवल्लीं भ्रूवरूपधनुर्हताम् । यावदिति परिमाणार्थम् । वक्रतां नयति । आकर्षतीति यावत् । तावत्परिमाणं हृदयं मिद्यत इत्यर्थः । अत्र हृदयभेदधनुराकर्षणयोः कार्यकारणयोर्भिन्नदेशत्वमेव दृष्टमिति नासंगतिरलंकारः ॥ ८५ ॥ अन्यत्रेति ॥ अन्यत्र कर्तव्यस्य वस्तुनस्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति-
रित्यनुषज्यते । तथा अन्यत्कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणं तृतीया असंगतिः । अपगतमरिजातं यस्यास्तां द्यां स्वर्गम् । तथा पारिजाततरुरहितामकृथाः कृतवान् । एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोऽपि त्वं गोत्राणां पर्वतानामुद्भेदं दलनमकरोः कृतवानित्यर्थः । श्लेषोत्थापिता श्लेषमूलकाभेदाध्यवसायोत्थापिता ॥ यथावा ॥ त्वत्खङ्गेति ॥ हे भुवनैकवीर चोलदेशाधिप सिंहसदृश, तव खड्गेन खण्डिता ये सपत्नाः शत्रवस्त-द्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति । यथा नेत्रेषु कङ्कणं विलयं भवतीत्यनुषङ्गः । अथेति समुच्चये । ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि-
 
[^१]'कृतिश्च यत्'
[^२]'पुराऽकरोत् '.