This page has been fully proofread once and needs a second look.

असंगत्यलंकारः ३७ ] अलंकारचन्द्रिकासहितः ।
 
१०३
 
विरुद्ध मिति विशेषणाद्यत्र कार्यहेत्वोर्भिन्नदेशत्वं न विरुद्धं तत्र नासं-
गतिः । यथा -
-
 
भ्रूचापवल्लीं सुमुखी यावन्नयति वक्रताम् ।

तावत्कटाक्षविशिखैर्भिद्यते हृदयं मम ॥ ८५ ॥

 
अन्यत्र करणीयस्य ततोऽन्यत्र कृति[^१]श्च सा ।

अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ ८६ ॥

 
अपारिजातां वसुधां चिकीर्षन्द्यां तथाकृथाः ।

गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पु[^२]राऽकरोः ॥ ८७ ॥
 

 
अत्र कृष्णं प्रति शक्रस्य सोपालम्भवचने भुवि चिकीर्षिततया तत्र कर-
णीयमपारिजातत्वं दिवि कृतमित्येकाऽसंगतिः । पुरा गोत्राया उद्धारे प्रवृत्तेन
वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्विविधापि
श्लेषोत्थापिता । यथावा -
-
 
त्वत्खड्ग खण्डितसपत्नविलासिनीनां
 

भूषा भवन्त्यभिनवा भुवनैकवीर ।

नेत्रेषु कङ्कणमथोरुषु पत्रवल्ली
 

चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥
 

 
[commentary]
 
दमयन्तीं प्रति हंसोक्तिः । हे दमयन्ति, त्वं तदीयां नलसंसम्बन्धिनीं दूरमत्यन्तं
दीर्घाघां संकल्पो मनोरथस्तद्रूपसोपानपरम्परामजस्रं निरन्तरमारोहसि । स पुनर्न-
लोऽधिकं श्वासान्वर्षति मुञ्चतीति यत्तव ध्यानात्त्वन्मयतां त्वत्स्वरूपतामवाप्ये-
त्यन्वयः । अत्र चतुर्थपदेनासंगतिसमाधानम् ॥ भ्रूचापेति ॥ भ्रूचापवल्लीं
भ्रूवरूपधनुर्हताम् । यावदिति परिमाणार्थम् । वक्रतां नयति । आकर्षतीति
यावत् । तावत्परिमाणं हृदयं मिद्यत इत्यर्थः । अत्र हृदयभेदधनुराकर्षणयोः
कार्यकारणयोर्भिन्न देशत्वमेव दृष्टमिति नासंगतिरलंकारः ॥ ८५ ॥ अन्यत्रेति ॥
अन्यत्र कर्तव्यस्य वस्तुन स्ततोऽन्यस्मिन्नधिकरणे या कृतिः करणं तदप्यसंगति-

रित्यनुषज्यते । तथा अन्यत्कार्यं कर्तुं प्रवृत्तस्य तद्विरुद्धकार्यकरणं तृतीया
असंगतिः । अपगतमरिजातं यस्यास्तां द्यां स्वर्गम् । तथा पारिजाततरुरहिताम-
कृथाः कृतवान् । एवं गोत्रायाः पृथिव्या उद्धाराय पुरा वराहावतारे प्रवृत्तोऽपि
त्वं गोत्राणां पर्वतानामुद्भेदं दलनमकरोः कृतवानित्यर्थः । श्लेषोत्थापिता
श्लेषमूलका भेदाध्यवसायोत्थापिता ॥ यथावा ॥ त्वत्खङ्गेति ॥ हे भुवनैक-
वीर चोलदेशाधिप सिंहसदृश, तव खड्गेन खण्डिता ये सपत्नाः शत्रवस्त-
द्विलासिनीनामभिनवा अदृष्टपूर्वा भूषा भूषणानि भवन्ति । यथा नेत्रेषु कङ्कणं
विलयं भवतीत्यनुषङ्गः । अथेति समुच्चये । ऊरुषु च पत्रयुक्ता वल्ली सैव पत्रि-

 
[^
]'कृतिश्च यत्'.
[^
]'पुराकरोत् '.