2023-04-28 14:54:18 by Bharadwajraki
This page has been fully proofread twice.
अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ।
धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ॥ ७ ॥
अश्लीलं त्रिविधं व्रीडा जुगुप्साऽमङ्गलात्मना ।
आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८ ॥
स्याद्व्यर्थमिह संदिग्धं नद्यां यान्ति पतत्रिणः ।
स्यादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥ ९ ॥
शिथिलं शयने लिल्ये मच्चित्तं ते शशिश्रियि ।
मस्तपृष्ठकटीलोष्ठगल्लादि ग्राम्यमुच्यते ॥ १० ॥
नेयार्थं लक्षणात्यन्तप्रसरादमनोहरम् ।
हिमांशोर्हारधिक्कारजागरे यामिकाः कराः ॥ ११ ॥
क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति ।
हरिप्रियापितृवारिप्रवाहप्रतिमं वचः ॥ १२ ॥
अविमृष्टविधेयांशः समासपिहिते विधौ ।
विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥ १३ ॥
अपराधीन इत्यादि विरुद्धमतिकृन्मतम् ।
अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥
रथाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः ।
न मामङ्गद जानासि रावणं रणदारुणम् ॥ १५ ॥
यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा ।
कुसंधिः पटवागच्छ विसंधिर्नृपती इमौ ॥ १६ ॥
हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् ।
विशाललोचने पश्याम्बरं तारातरङ्गितम् ॥ १७ ॥
नूनं त्वत्खड्गसंभूतं यशःपुष्पं नभस्तलम् ।
अधिकं भवतः शत्रून्दशत्यसिलताफणी ॥ १८ ॥
कथितं पुनरुक्ता वाक्छायाब्जश्यामलोचना ।
विकृतं दूरविकृतैरैयरुः कुञ्जराः पुरम् ॥ १९ ॥
पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम् ।
गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥ २० ॥
समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् ।
नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिबान्धवः ॥ २१ ॥
अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् ।
मेघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २२ ॥
अभवन्मतयोगः स्यान्न चेदमभितोऽन्वयः ।
येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् ॥ २३ ॥
स एष लङ्कालंकारं रावणं हन्तुमुद्यतः ।