This page has not been fully proofread.

१०२
 
यथावा-
कुवलयानन्दः । [ असंगत्यलंकारः ३७
 
असंभवालंकारः ३६
 
असंभवोऽर्थनिष्पत्तेरंसंभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८४ ॥
 
s
 
अयं वारामेको निलय इति रत्नाकर इति
 
श्रितोऽस्माभिस्तृष्णातरलि तमनोभिर्जलनिधिः ।
 
क एवं जानीते निजकरपुटीकोटरगतं
 
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ८४ ॥
 
असंगत्यलंकारः ३७
 
विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः ।
विषं जलधरैः पीतं मूच्छिता पथिकाङ्गनाः ॥ ८५ ॥
ययोः कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलंकारः ।
यथात्र विषपानमूर्च्छयोर्भिन्नत्वम् ।
 
यथावा-
अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः ।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥
 
-
 
क्वचिदसांगत्यसमाधाननिबन्धनेन चारुतातिशयः । यथावा -
अजस्रमारोहसि दूरदीर्घा संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतामवाप्य ॥
 
रागो रक्तिमा रतिश्च । पुरःसरोऽग्रवर्ती आज्ञाकरश्च । पूर्वोदाहरणेऽनुक्ति निमि-
त्ता इह दैवगतिवैचित्र्यस्य निमित्तस्योपादानादुक्त निमित्तेति भेदः ॥ ८३ ॥
इति विशेषोक्तिप्रकरणम् ॥ ३५ ॥
 
असंभव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसंभावनीयत्ववर्णनमसंभवो
नामालंकारः । गोपशिशुको गोपबालकः । निन्दायां स्वार्थे वा कप्रत्ययः ।
उत्पाटयेदुद्धरेत् ॥ अयमिति ॥ वारां जलानां निलयः स्थानम् । तृष्णा पिपासा
अर्थाभिलाषश्च । तरलितं चञ्चलीकृतम् । श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं
क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः । कीदृशम् । निजकरपुटी
करसंपुटमेव कोटरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराच
यस्यैवंभूतमित्यर्थः ॥ ८४ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६ ॥
 
विरुद्धमिति ॥ अदृष्टमित्यर्थः । मिन्नदेशत्वं भिन्नाधिकरणत्वम् । विषं जलं
हालाहलं च । संगतस्य भावः सांगत्यं तदभावोऽसांगत्यम् ॥ अजस्त्रमिति ।
१ 'संभाव्यत्व'. २ 'विरुद्धभिन्न देशत्वं कार्यहेतो.
 
-