2023-04-25 10:14:00 by Bharadwajraki
This page has been fully proofread twice.
असम्भवालंकारः ३६
असम्भवोऽर्थनिष्पत्तेर[^१]संभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८४ ॥
यथावा --
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ८४ ॥
----------
असंगत्यलंकारः ३७
वि[^२]रुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः ।
विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गनाः ॥ ८५ ॥
ययोः कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलंकारः । यथात्र विषपानमूर्च्छयोर्भिन्नत्वम् ।
यथावा --
अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः ।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥
क्वचिदसांगत्यसमाधाननिबन्धनेन चारुतातिशयः । यथावा --
अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतामवाप्य ॥
[commentary]
रागो रक्तिमा रतिश्च । पुरःसरोऽग्रवर्ती आज्ञाकरश्च । पूर्वोदाहरणेऽनुक्ति निमित्ता इह दैवगतिवैचित्र्यस्य निमित्तस्योपादानादुक्तनिमित्तेति भेदः ॥ ८३ ॥ इति विशेषोक्तिप्रकरणम् ॥ ३५ ॥
असम्भव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसम्भावनीयत्ववर्णनमसम्भव नामालंकारः । गोपशिशुको गोपबालकः । निन्दायां स्वार्थे वा कप्रत्ययः । उत्पाटयेदुद्धरेत् ॥ अयमिति ॥ वारां जलानां निलयः स्थानम् । तृष्णा पिपासा अर्थाभिलाषश्च । तरलितं चञ्चलीकृतम् । श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः । कीदृशम् । निजकरपुटी करसंपुटमेव कोटरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च
यस्यैवंभूतमित्यर्थः ॥ ८४ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६ ॥
विरुद्धमिति ॥ अदृष्टमित्यर्थः ।मिभिन्नदेशत्वं भिन्नाधिकरणत्वम् । विषं जल हालाहलं च । संगतस्य भावः सांगत्यं तदभावोऽसांगत्यम् ॥ अजस्त्रमिति ।॥
[^१] 'संभाव्यत्व'.
[^२] 'विरुद्धभिन्नदेशत्वं कार्यहेतो’
असम्भवोऽर्थनिष्पत्तेर[^१]संभाव्यत्ववर्णनम् ।
को वेद गोपशिशुकः शैलमुत्पाटयेदिति ॥ ८४ ॥
यथावा --
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ८४ ॥
----------
असंगत्यलंकारः ३७
वि[^२]रुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः ।
विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गनाः ॥ ८५ ॥
ययोः कार्यहेत्वोर्भिन्नदेशत्वं विरुद्धं तयोस्तन्निबध्यमानमसंगत्यलंकारः । यथात्र विषपानमूर्च्छयोर्भिन्नत्वम् ।
यथावा --
अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः ।
अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥
क्वचिदसांगत्यसमाधाननिबन्धनेन चारुतातिशयः । यथावा --
अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतामवाप्य ॥
[commentary]
रागो रक्तिमा रतिश्च । पुरःसरोऽग्रवर्ती आज्ञाकरश्च । पूर्वोदाहरणेऽनुक्ति
असम्भव इति ॥ कस्यचित्पदार्थस्य निष्पत्तेरसम्भावनीयत्ववर्णनमसम्भव नामालंकारः । गोपशिशुको गोपबालकः । निन्दायां स्वार्थे वा कप्रत्ययः । उत्पाटयेदुद्धरेत् ॥ अयमिति ॥ वारां जलानां निलयः स्थानम् । तृष्णा पिपासा अर्थाभिलाषश्च । तरलितं चञ्चलीकृतम् । श्रित आश्रितः मुनिरगस्त्यः एनं समुद्रं क्षणादासमन्तात्पास्यति इदं को जानीत इत्यन्वयः । कीदृशम् । निजकरपुटी करसंपुटमेव कोटरं बिलं तद्गतं तथा ताम्यन्तो ग्लायन्तस्तिमयो मत्स्या मकराश्च
यस्यैवंभूतमित्यर्थः ॥ ८४ ॥ इत्यसंभवालंकारप्रकरणम् ॥ ३६ ॥
विरुद्धमिति ॥ अदृष्टमित्यर्थः ।
[^१] 'संभाव्यत्व'.
[^२] 'विरुद्धभिन्नदेशत्वं कार्यहेतो’