This page has not been fully proofread.

विशेषोत्त्यलंकारः ३५ ] अलंकारचन्द्रिकासहितः ।
 
मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्मानि ॥
 
यथावा-
अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्रयम् ।
श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥
 
पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम् । इहतु श्रुतिप्रण-
यित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८१ ॥
 
कांर्यात्कारणजन्मापि दृष्टा काचिद्विभावना ।
यशः पयोरॉशिरभूत्करकल्पतरोस्तव ॥ ८२ ॥
 
यथावा-
-
 
जाता लता हि शैले जातु लतायां न जायते शैलः ।
संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ८२ ॥
 
१०१
 
विशेषोक्त्यलंकारः ३५
कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ।
हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥ ८३ ॥
 
यथावा-
अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
 
अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८३ ॥
 
इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्ये उदिते सति कोः
पृथिव्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रियकुलं न
भाति । अथच नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणां पाणिक-
मलानि मुकुलीभवन्ति संकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ॥
अविवेकीति ॥ विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम् । परस्परं संश्लिष्ट-
त्वात् । कुचयुगं कर्तृ । जगत्रयं हन्तु नाम । श्रुतिर्वेदः कर्णश्च । प्रणयः परि-
चयः ॥ ८१ ॥ यश इति ॥ कर एव दातृत्वात्कल्पतरुः । अत्र पयोधिजन्या-
त्कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्टी विभावना ॥ जातेति ॥ जातु कदा-
चित् । कनकलतेव कनकलता कामिनी । गिरिद्वयमिव स्तनद्वयम् ॥ ८२ ॥
इति विभावनाप्रकरणम् ॥ ३४ ॥
 

 
विशेषोक्तिं लक्षयति – कार्याजनिरिति ॥ पुष्कले सहकारिसंपन्ने कारणे
सति । प्रसिद्धकारणसमूहे सतीति यावत् । कार्यस्याज निरनुत्पत्तिर्विशेषोक्तिः ।
विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतिर्यत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु-
१ 'कार्याच्चेत्कारणोत्पत्तिर्दृष्टा'. २ ' पयोधिरभवत्करः'.