This page has been fully proofread once and needs a second look.

विशेषोत्त्यलंकारः ३५ ] अलंकारचन्द्रिकासहितः ।
 
मुकुलीभवन्ति चित्रं परराजकुमारपाणिपद्मानि ॥
 

 
यथावा-
--
 
अविवेकि कुचद्वन्द्वं हन्तु नाम जगत्रयम् ।

श्रुतिप्रणयिनोरक्ष्णोरयुक्तं जनमारणम् ॥
 

 
पूर्वोदाहरणयोः कारणस्य कार्यविरोधित्वं स्वाभाविकम् । इहतु श्रुतिप्रण-
यित्वरूपागन्तुकगुणप्रयुक्तमिति भेदः ॥ ८१ ॥
 
कां

 
का[‍^१]
र्यात्कारणजन्मापि दृष्टा काचिद्विभावना ।

यशः पयोरॉरा[^२]शिरभूत्करकल्पतरोस्तव ॥ ८२ ॥
 

 
यथावा-
-
 
--
 
जाता लता हि शैले जातु लतायां न जायते शैलः ।

संप्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ८२ ॥
 
१०१
 

 
------------
 
विशेषोक्त्यलंकारः ३५

 
कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे ।

हृदि स्नेहक्षयो नाभूत्स्मरदीपे ज्वलत्यपि ॥ ८३ ॥
 

 
यथावा-
--
 
अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
 

अहो दैवगतिश्चित्रा तथापि न समागमः ॥ ८३ ॥
 

 
[commentary]
 
इति ॥ कस्यचिद्राजकुमारस्य प्रतापवर्णनम् । कुमाररूपे सूर्ये उदिते सति कोः
पृथिव्या वलयं मण्डलमेव कुवलयं कुमुदमुल्लासं प्राप्नोति । क्षत्रं क्षत्रियकुलं न
भाति । अथच नक्षत्रं भातीति चित्रम् । तथा परेषां राजकुमाराणां पाणिक-
मलानि मुकुलीभवन्ति संकुचन्ति । अञ्जलिबन्धात्तदाकृतीनि भवन्तीत्यर्थः ॥
अविवेकीति ॥ विवेको विशेषदर्शनं विश्लेषश्च तच्छून्यम् । परस्परं संश्लिष्ट-
त्वात् । कुचयुगं कर्तृ । जगत्रयं हन्तु नाम । श्रुतिर्वेदः कर्णश्च । प्रणयः परि-
व्चयः ॥ ८१ ॥ यश इति ॥ कर एव दातृत्वात्कल्पतरुः । अत्र पयोधिजन्या-

त्कल्पतरोः कारणस्य पयोधेरुत्पत्तिः षष्टी विभावना ॥ जातेति ॥ जातु कदा-
चित् । कनकलतेव कनकलता कामिनी । गिरिद्वयमिव स्तनद्वयम् ॥ ८२ ॥
इति विभावनाप्रकरणम् ॥ ३४ ॥
 

 

 
विशेषोक्तिं लक्षयति -- कार्याजनिरिति ॥ पुष्कले सहकारिसंपन्ने कारणे
सति । प्रसिद्धकारणसमूहे सतीति यावत् । कार्यस्याज निरनुत्पत्तिर्विशेषोक्तिः ।

विशेषस्यानुत्पत्तिनिमित्तस्योक्तिरवगतिर्यत्रेति व्युत्पत्तेः ॥ अनुरागेति ॥ अनु-

 
[^
]'कार्याच्चेत्कारणोत्पत्तिर्दृष्टा'.
[^
]' पयोधिरभवत्करः'.