This page has been fully proofread twice.

अत्र बाप्पोद्गमनहेतूनामसमप्ग्रत्वं स्पर्शनक्रियावैकल्यम् । इमां विशेषोक्तिरिति दण्डी व्याजहार । यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिशयरूपो द्वितीयोहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्याप्यत इति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति विभावना प्रदर्शिता ॥ ७८ ॥
 
कार्योत्पत्तिस्तृतीया स्यात्स[^१]त्यपि प्रतिबन्धके ।
नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७९ ॥
 
अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमन्त्रौषधिशालिनः श्लेषेण गृहीता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथावा --
 
चित्रं तपति राजेन्द्र प्रतापतपनस्तव ।
अनातपत्रमुत्सृज्य सातपत्रं द्विषद्द्वणम् ॥ ७९ ॥
 
अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ।
शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ८० ॥
 
अत्र शङ्खशब्देन कमनीयः कामिनीकण्ठस्तन्त्रीनिनादत्वेन तद्गीतं चाध्यवसीयत इत्यकारणात्कार्यजन्म । यथावा --
 
तिलपुष्पात्समायाति वायुश्चन्दनसौरभः ।
इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखाः ॥ ८० ॥
 
विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावना ।
शीतांशुकिरणा[^२]स्तन्वीं हन्त सन्तापयन्ति [^३]ताम् ॥ ८१ ॥
 
अत्र तापनिवर्तकतया तापविरुद्धैरिन्दुकिरणैस्तापजनिरुक्ता । यथावा --

उदिते कुमारसूर्ये कुवलयमुल्लसति भाति नक्षत्रम् ।
 
[commentary]
 
व्याजहारेति ॥ 'गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् । विशेष्यदर्शनायैव सा विशेषोक्तिरिष्यते ॥ इति ग्रन्थेन व्यवहृतवानित्यर्थः । एतेन प्रथमप्रकारा द्द्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमिति वदन्नपास्तः । वैलक्षण्याभावे हि प्राचामलंकारान्तरत्वेन कथनमत्यन्तानुपपन्नमेव स्यात् । अस्ति च स्वरूपतः कारणाभावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने सहृदयसिद्धो
विच्छित्तिविशेषः । प्रकारान्तरास्वीकारे लाघवमिति तु स्वीयलाघवोद्भावनमिति कृतमधिकेन ॥ ७८ ॥ कार्योत्पत्तिरिति ॥ प्रतिबन्धके सत्यपि कार्योत्पत्तिकथनं तृतीया विभावना ॥ नरेन्द्रानिति ॥ 'नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽपि कथ्यते' इति विश्वः । असिः खड्ग एव भुजंगमः ॥ चित्रमिति ॥ प्रताप एव तपनः सूर्यः । आतपत्रं छत्रं तद्रहितमनातपत्रम् । आतपत्रेण सहितं सा
तपत्रम् ॥ ७९ ॥ अकारणादित्यस्य सुगमत्वान्न व्याख्यानम् ॥ ८० ॥ उदित
 
[^१] 'सत्यतिप्रति'.
[^२] 'तन्वीं हन्त'.
[^३] 'माम्'
 
.