This page has been fully proofread once and needs a second look.

१००
 
कुवलयानन्दः । [ विभावनालंकारः ३४
 
अत्र बाप्पोद्गमन हेतूनामसमप्रत्वं स्पर्शनक्रियावैकल्यम् । इमां विशेषो
क्तिरिति दण्डी व्याजहार । यतस्तत्र प्रथमोदाहरणे मन्मथस्य महिमातिश-
यरूपो द्वितीयोहरणे चम्पकरेणूनामुद्दीपकतातिशयरूपश्च विशेषः ख्या-
प्यत इति । अस्माभिस्तु तीक्ष्णत्वादिवैकल्यमपि कारणविशेषाभावरूपमिति
विभावना प्रदर्शिता ॥ ७८ ॥
 

 
कार्योत्पत्तिस्तृतीया स्यात्संस[^१]त्यपि प्रतिबन्धके ।

नरेन्द्रानेव ते राजन्दशत्यसिभुजङ्गमः ॥ ७९ ॥
 
·
 

 
अत्र नरेन्द्रा विषवैद्याः सर्पदंशप्रतिबन्धकमन्त्रौषधिशालिनः श्लेषेण गृ
हीता इति सत्येव प्रतिबन्धके कार्योत्पत्तिः ॥ यथावा -
-
 
चित्रं तपति राजेन्द्र प्रतापतपनस्तव ।
 

 

अनातपत्रमुत्सृज्य सातपत्रं द्विषद्द्वणम् ॥ ७९ ॥

 
अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ।

शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ॥ ८० ॥

 
अत्र शङ्खशब्देन कमनीयः कामिनीकण्ठस्तत्रीनिनादत्वेन तद्गीतं चाध्य
वसीयत इत्यकारणात्कार्यजन्म । यथावा -
-
 
तिलपुष्पात्समायाति वायुश्चन्दनसौरभः ।

इन्दीवरयुगाच्चित्रं निःसरन्ति शिलीमुखाः ॥ ८० ॥

 
विरुद्धात्कार्यसंपत्तिर्दृष्टा काचिद्विभावना ।

शीतांशुकिरणा[^२]स्तन्वीं हन्त संसन्तापयन्ति [^३]ताम् ॥ ८१ ॥

 
अत्र तापनिवर्तकतया तापविरुद्धैरिन्दुकिरणैस्तापजनिरुक्ता । यथावा -
-
उदिते कुमारसूर्ये कुवलयमुल्लसति भाति नक्षत्रम् ।
 

 
[commentary]
 
व्याजहारेति ॥ 'गुणजातिक्रियादीनां यत्र वैकल्यदर्शनम् । विशेष्यदर्शनायैव
सा विशेषोक्तिरिष्यते ॥ इति ग्रन्थेन व्यवहृतवानित्यर्थः । एतेन प्रथमप्रकारा
द्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमिति वदन्नपास्तः । वैलक्षण्याभावे हि प्राचा
मलंकारान्तरत्वेन कथनमत्यन्तानुपपन्नमेव स्यात् । अस्ति च स्वरूपतः कारणा.
भावकथनात्कारणगतधर्मवैकल्यद्वारेण तद्विशिष्टकारणाभावकथने सहृदय सिद्धो

विच्छित्तिविशेषः । प्रकारान्तरास्वीकारे लाघवमिति तु स्वीयलाघवोद्भावन मिति
कृतमधिकेन ॥ ७८ ॥ कार्योत्पत्तिरिति ॥ प्रतिबन्धके सत्यपि कार्योत्पत्ति
कथनं तृतीया विभावना ॥ नरेन्द्रानिति ॥ 'नरेन्द्रो वार्तिके राज्ञि विषवैद्ये.
ऽपि कथ्यते' इति विश्वः । असिः खड्ग एव भुजंगमः ॥ चित्रमिति ॥ प्रताप
एव तपनः सूर्यः । आतपत्रं छत्रं तद्रहितमनातपत्रम् । आतपत्रेण सहितं सा

तपत्रम् ॥ ७९ ॥ अकारणादित्यस्य सुगमत्वान्न व्याख्यानम् ॥ ८० ॥ उदित

 
[^
]'सत्यतिप्रति '
[^२]'तन्वीं हन्त
'. २ 'तन्वीं हन्त'.
[^
]'माम्'.