This page has not been fully proofread.

विभावनालंकारः ३४ ] अलंकारचन्द्रिकासहितः ।
 
९९
 
अत्र लाक्षारसा सेकरूपकारणाभावेऽपि रक्तिमा कथितः । स्वाभाविकत्वेन
विरोधपरिहारः । यथावा-
अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् ।
 
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥
अत्र पानादिप्रसिद्धहेत्वभावेऽपि
त्समयहेतुकत्वेन विरोधपरिहारः । यथावा-
क्षीबत्वादिनिबद्धम् । विभाव्यमानशर-
-
 
वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना ।
अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा ॥
 
अत्र वल्लयां पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्त-
सौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोध-
परिहारः ॥ ७७ ॥
 
हेतूनामसमग्रत्वे कार्योत्पत्तिव सा मता ।
अस्त्रैरतीक्ष्णकठिनैर्जगञ्जयति मन्मथः ॥ ७८ ॥
 
अत्र जगज्जये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् ।
 
यथावा-
-
 
उद्यानमारुतो छूताश्चतचम्पकरेणवः ।
उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥
 
लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम् । तत्राद्यं दर्शितमेव । द्वितीयं तु कार-
णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति
विविच्य न दर्शितम् । प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वा -
रणायान्वितेति । तत्र प्रतिबन्धस्य वस्तुतः कारणाभावरूपस्य कथनेऽपि न कार-
णान्वितत्वेन कथन मिति तन्निरासः । प्रकारपञ्चकेऽपि कारणान्विताभावस्यार्थतो
गम्यत्वात्कथनेति ॥ अप्यलाक्षेति ॥ लाक्षारसेन आसमन्तात्सितं लाक्षारसा-
सिक्तम् । पश्चान्नञ्समासः । तस्याः कामिन्याः ॥ अपीतेति ॥ अपीताः पान-
शून्याः क्षीबा मत्ताः कादम्बा: कलहंसा यत्र । तथा असंमृष्टं संमार्जनशून्यममल-
मम्बरमाकाशं यत्र । एवमप्रसादितं वस्त्रगालनकतकक्षोदप्रक्षेपादिना यत्प्रसादनं
तच्छून्यं सूक्ष्मं लध्वम्बु यत्र एवंभूतं जगन्मनोरममासीदित्यन्वयः । परमार्थ-
तस्तु शुद्धाम्ब्वित्येव काव्यादर्शे दृष्टः पाठः ॥ विभाव्यमानेति ॥ वर्ण्यमाने-
त्यर्थः ॥ वरेति ॥ वरतनो: केशपाशरचनासंपादकेनातएव सुरभिनखेन राज्ञो
इस्तेनावचितकुसुमा लूनपुष्पापि लता वृन्तासक्तभ्रमरा संजातेत्यर्थः ॥ ७७ ॥
हेतूनामिति ॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्संबन्धस्य वा वैकल्ये
सति। अस्त्रैरिति धर्मवैकल्योदाहरणम् । संबन्धवैकल्ये उदाहरति उद्यानेति ॥
विलोचने कर्मभूते । उदत्रयन्ति । उद्गताश्रूणि कुर्वन्तीत्यर्थः ॥ क्रियेति धात्व-
र्थवाभिप्रायं स्पर्शनस्य संयोगरूपत्वात् । इमां द्वितीय प्रकाररूपां विभावनाम् ॥