This page has been fully proofread once and needs a second look.

अत्र लाक्षारसासेकरूपकारणाभावेऽपि रक्तिमा कथितः । स्वाभाविकत्वेन विरोधपरिहारः । यथावा --
 
अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥
 
अत्र पानादिप्रसिद्धहेत्वभावेऽपि क्षीबत्वादिनिबद्धम् । विभाव्यमानशरत्समयहेतुकत्वेन विरोधपरिहारः । यथावा --
 
वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना ।
अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा ॥
 
अत्र वल्लर्थां पुष्पाभावेऽपि भृङ्गालिङ्गनं निबद्धं तत्र वरतनुकबरीसंक्रान्तसौरभनरपतिनखसंसर्गरूपं हेत्वन्तरं विशेषणमुखेन दर्शितमिति विरोध-
परिहारः ॥ ७७ ॥
 
हेतूनामसमग्रत्वे कार्योत्पत्तिव सा मता ।
अस्त्रैरतीक्ष्णकठिनैर्जगञ्जयति मन्मथः ॥ ७८ ॥
 
अत्र जगज्जये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् ।
 
यथावा --
 
उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः ।
उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥
 
[commentary]
 
लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम् । तत्राद्यं दर्शितमेव । द्वितीयं तु कार-
णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति
विविच्य न दर्शितम् । प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वारणायान्वितेति । तत्र प्रतिबन्धस्य वस्तुतः कारणाभावरूपस्य कथनेऽपि न कारणान्वितत्वेन कथनमिति तन्निरासः । प्रकारपञ्चकेऽपि कारणान्विताभावस्यार्थतो गम्यत्वात्कथनेति ॥ अप्यलाक्षेति ॥ लाक्षारसेन आसमन्तात्सितं लाक्षारसासिक्तम् । पश्चान्नञ्समासः । तस्याः कामिन्याः ॥ अपीतेति ॥ अपीताः पानशून्याः क्षीबा मत्ताः कादम्बा: कलहंसा यत्र । तथा असंमृष्टं संमार्जनशून्यममलमम्बरमाकाशं यत्र । एवमप्रसादितं वस्त्रगालनकतकक्षोदप्रक्षेपादिना यत्प्रसादनं तच्छून्यं सूक्ष्मं लध्वम्बु यत्र एवंभूतं जगन्मनोरममासीदित्यन्वयः । परमार्थतस्तु शुद्धाम्ब्वित्येव काव्यादर्शे दृष्टः पाठः ॥ विभाव्यमानेति ॥ वर्ण्यमानेत्यर्थः ॥ वरेति ॥ वरतनो: केशपाशरचनासम्पादकेनातएव सुरभिनखेन राज्ञ हस्तेनावचितकुसुमा लूनपुष्पापि लता वृन्तासक्तभ्रमरा संजातेत्यर्थः ॥ ७७ ॥ हेतूनामिति ॥ असमग्रत्वे हेतुतावच्छेदकस्य धर्मस्य तत्सम्बन्धस्य वा वैकल्य सति। अस्त्रैरिति धर्मवैकल्योदाहरणम् । संबन्धवैकल्ये उदाहरति
-- उद्यानेति ॥ विलोचने कर्मभूते । उदस्त्रयन्ति । उद्गताश्रूणि कुर्वन्तीत्यर्थः ॥ क्रियेति धात्व-
र्थवाभिप्रायं स्पर्शनस्य संयोगरूपत्वात् । इमां द्वितीय प्रकाररूपां विभावनाम् ॥