2023-04-03 13:02:52 by Bharadwajraki
This page has been fully proofread once and needs a second look.
९९
अ
अपीतक्षीबकादम्बमसंमृष्टामलाम्बरम् ।
अप्रसादितसूक्ष्माम्बु जगदासीन्मनोरमम् ॥
अत्र पानादिप्रसिद्धहेत्वभावेऽपि
त्समयहेतुकत्वेन विरोधपरिहारः । यथावा-
वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना ।
अवचितकुसुमापि वल्लरी समजनि वृन्तनिलीनषट्पदा ॥
अत्र वल्ल
परिहारः ॥ ७७ ॥
हेतूनामसमग्रत्वे कार्योत्पत्तिव सा मता ।
अस्त्रैरतीक्ष्णकठिनैर्जगञ्जयति मन्मथः ॥ ७८ ॥
अत्र जगज्जये साध्ये हेतूनामस्त्राणामसमग्रत्वतीक्ष्णत्वादिगुणवैकल्यम् ।
यथावा -
उद्यानमारुतो
उदस्रयन्ति पान्थानामस्पृशन्तो विलोचने ॥
[commentary]
लक्षणमाद्यप्रकारविशेषलक्षणं च बोध्यम् । तत्राद्यं दर्शितमेव । द्वितीयं तु कार-
णान्विताभावकथनपूर्वकं कार्योत्पत्तिकथनमित्युदाहरणविशेषबलादेव गम्यत इति
विविच्य न दर्शितम् । प्रतिबन्धके सति कार्योत्पत्तिरूपे तृतीयप्रकारेऽतिव्याप्तेर्वा
इ
-- उद्यानेति ॥
र्थवाभिप्रायं स्पर्शनस्य संयोगरूपत्वात् । इमां द्वितीय प्रकाररूपां विभावनाम् ॥