This page has not been fully proofread.

कुवलयानन्दः । [ विभावनालंकार: ३४
 
विरोधाभासालंकारः ३३
आभासत्व विरोधस्य विरोधाभास इष्यते ।
विनापि तन्वि हारेण वक्षोजौ तव हारिणौ ॥ ७६ ॥
त्रहाररहितावपि हारिणौ हृद्याविति श्लेषमूलको विरोधाभासः । यथावा-
प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्रजिन्मित्र जिदोजसा स यद्विचारहक्चारगप्यवर्तत ॥
 
: अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्माद्भेदः ॥७६॥
 
९८
 
विभावनालंकारः ३४
 
विभावना विनापि स्यात्कारणं कार्यजन्म चेत् ।
अप्यंलाक्षारसासितं रक्तं तच्चरणद्वयम् ॥ ७७॥
 
आभासत्व इति ॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरो-
धाभासो नामालंकारः । आभासत इत्याभासः । विरोधश्वासावाभासश्चेति व्यु
त्पत्तेः । ईषदर्थकेन चाङा भानस्यापातरूपत्वमर्थान्तरपरिहार्यत्वरूपं बोध्यते । तथा
चैकाधिकरण्येन प्रतीयमानयोः कार्यकारणत्वेनागृह्यमाणयोर्धर्मयोराभासमानाप-
र्यवसन्नविरोधत्वं लक्षणं द्रष्टव्यम् । शनिरशनिश्च तमुच्चै रित्यादावतिव्याप्तिवारणा-
याद्यं विशेषणम् । अप्यलाक्षारसासितं रक्तं तच्चरणद्वयम् इति विभावनावा-
रणाय द्वितीयम् । पर्यवसितस्य विरोधस्य दोषत्वादपर्यवसन्नत्वं विरोधविशेषण-
मिति दिक् ॥ श्लेषेति ॥ हारोऽनयोरस्तीत्यर्थे विरोधः । मनोहारिणा वित्यर्थेन
तत्परिहारः ॥ प्रतीपेति ॥ तस्मान्नलाद्भयेन कृत्वा प्रतिकूलनृपैरिव विरुद्धधर्में-
रपि मेत्तृता भेदकारिता त्यक्ता किमित्युत्प्रेक्षा । यस्मात्स नलः अमित्राणां श-
त्रूणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत् । अथच मित्रजिदेव न मित्रजि-
दिति विरोधः । चारदृष्टिरपि विचारे दृष्टिर्यस्य तादृशः विगतचारहगिति च वि-
रोधः ॥ विरोधेति ॥ विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश
इत्यर्थः । यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव
भग्नमिति कथमत्र विरोधालंकार इति केनचित्सुमनसापि विमनसेवाभिहितं तदसा-
रम् । विरोधभानमन्तरेण विरुद्धधर्मैरपीत्याद्युत्प्रेक्षाया एवानुत्थानेन श्लेषमूलमा-
भासमानं विरोधमुपजीव्यैव विरोधल्यागोत्प्रेक्षाया अर्थान्तरानुगृहीतायास्तत्समा
धानत्वेन पश्चादवस्थितत्वादिति ॥ ७६ ॥ इति विरोधाभासप्रकरणम् ॥ ३३ ॥
 
विभावनेति ॥ प्रसिद्धे कारणाभावेऽपि कार्योत्पत्तिर्विभावनालंकारः । विभा-
व्यते कारणान्तरं यस्यामिति व्युत्पत्तेः कारणाभावश्च शाब्द आर्थो वेति सर्वत्र
लक्षणसमन्वयो बोध्यः । एतदेव तन्त्रेण सकलविभावनाप्रकारसाधारणं सामान्य-
१ 'आभासत्वं'. २ 'अपि लाक्षा'.
 
-