This page has been fully proofread once and needs a second look.

विरोधाभासालंकारः ३३
 
आ[^१]भासत्वे विरोधस्य विरोधाभास इष्यते ।
विनापि तन्वि हारेण वक्षोजौ तव हारिणौ ॥ ७६ ॥
 
अत्र हाररहितावपि हारिणौ हृद्याविति श्लेषमूलको विरोधाभासः । यथावा --
 
प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥
 
अत्र विरोधसमाधानोत्प्रेक्षाशिरस्को विरोधाभास इति पूर्वस्माद्भेदः ॥७६॥
 
विभावनालंकारः ३४
 
विभावना विनापि स्यात्कारणं कार्यजन्म चेत् ।
अप्य[^२]लाक्षारसासिक्तं रक्तं तच्चरणद्वयम् ॥ ७७॥
 
[commentary]
 
आभासत्व इति ॥ विरोधस्याभासत्वे आपाततो भासमानत्वे सति विरोधाभासो नामालंकारः । आभासत इत्याभासः । विरोधश्चासावाभासश्चेति व्युत्पत्तेः । ईषदर्थकेन चाङा भानस्यापातरूपत्वमर्थान्तरपरिहार्यत्वरूपं बोध्यते । तथा चैकाधिकरण्येन प्रतीयमानयोः कार्यकारणत्वेनागृह्यमाणयोर्धर्मयोराभासमानापर्यवसन्नविरोधत्वं लक्षणं द्रष्टव्यम् । शनिरशनिश्च तमुच्चैरित्यादावतिव्याप्तिवारणायाद्यं विशेषणम् । अप्यलाक्षारसासिक्तं रक्तं तच्चरणद्वयम् इति विभावनावारणाय द्वितीयम् । पर्यवसितस्य विरोधस्य दोषत्वादपर्यवसन्नत्वं विरोधविशेषणमिति दिक् ॥ श्लेषेति ॥ हारोऽनयोरस्तीत्यर्थे विरोधः । मनोहारिणावित्यर्थेन तत्परिहारः ॥ प्रतीपेति ॥ तस्मान्नलाद्भयेन कृत्वा प्रतिकूलनृपैरिव विरुद्धधर्मैरपि भेत्तृता भेदकारिता त्यक्ता किमित्युत्प्रेक्षा । यस्मात्स नलः अमित्राणां शत्रूणां जयकृदपि ओजसा मित्रस्य रवेर्जयकृत् । अथच मित्रजिदेव न मित्रजिदिति विरोधः । चारदृष्टिरपि विचारे दृष्टिर्यस्य तादृशः विगतचारदृगिति च विरोधः ॥ विरोधेति ॥ विरोधसमाधानरूपोत्प्रेक्षा शिरः प्रधानं यस्य तादृश इत्यर्थः । यत्तु विरोधसमाधानात्मिकया मुखस्थितयोत्प्रेक्षया विरोधस्योत्थानमेव भग्नमिति कथमत्र विरोधालंकार इति केनचित्सुमनसापि विमनसेवाभिहितं तदसारम् । विरोधभानमन्तरेण विरुद्धधर्मैरपीत्याद्युत्प्रेक्षाया एवानुत्थानेन श्लेषमूलमाभासमानं विरोधमुपजीव्यैव विरोधत्यागोत्प्रेक्षाया अर्थान्तरानुगृहीतायास्तत्समाधानत्वेन पश्चादवस्थितत्वादिति ॥ ७६ ॥ इति विरोधाभासप्रकरणम् ॥ ३३ ॥
 
विभावनेति ॥ प्रसिद्धे कारणाभावेऽपि कार्योत्पत्तिर्विभावनालंकारः । विभाव्यते कारणान्तरं यस्यामिति व्युत्पत्तेः कारणाभावश्च शाब्द आर्थो वेति सर्वत्र लक्षणसमन्वयो बोध्यः । एतदेव तन्त्रेण सकलविभावनाप्रकारसाधारणं सामान्य
[^१] 'आभासत्वं'.
[^२] 'अपि लाक्षा'.