2023-02-17 12:58:56 by ambuda-bot
This page has not been fully proofread.
आक्षेपालंकारः ३२ ] अलंकारचन्द्रिकासहितः ।
नरेन्द्रमौले न वयं राजसंदेशहारिणः ।
जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥
अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः । सं-
धिकालोचितकैतववचनपरिहारेण ह्यर्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य
तव न कश्चिदपि शत्रुभावेनावलोकनीय: किंतु सर्वेऽपि राजानो भृत्यभावेन
संरक्षणीया इति विशेषमाक्षिपति ॥ ७४ ॥
९७
आक्षेपोऽन्यो विधौ व्यक्ते निषेधे च तिरोहिते ।
गच्छ गच्छसि चेत्कान्त तत्रैव स्याञ्जनिर्मम ॥ ७५ ॥
अत्र गच्छेति विधिर्व्यक्तः । मागा इति निषेधस्तिरोहितः कान्तोद्देश्य-
देशे निजजन्मप्रार्थनयात्ममरणसंसूचनेन गर्भितः । यथावा-
न चिरं मम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यमलमाशङ्कयापि ते ॥
अत्रापि न चिरं मम तापायेति स्वमरणसंसूचनेन गमननिषेधो गर्भी-
कृतः ॥ ७५ ॥
नरेन्द्रेति ॥ संधिकरणार्थमागतानां दूतानामुक्तिः । नरेन्द्राणां राज्ञां मौलिः
श्रेष्टः ॥ संधीति ॥ संधिकाले उचितं यत्कैतववचनं तत्परिहारेणोपलक्षिते
इति पूर्ववदर्थः । अत्राहुः - संदेश हारिषु तन्निषेधस्य बाधात् संदेशहारि पदेन
कैतववचनप्रयोक्तृत्वविशिष्टं लक्ष्यते । तन्निषेधेन च सत्यवादित्वरूपो विशेषो
व्यज्यत इत्ययमेव निषेधेन विशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादि विशेषो
निषेधेन केवलेनाक्षेप्तं शक्यते । तस्य जगत्कुटुम्बिन इत्युत्तरार्धगम्यत्वात् ।
एवं स्थिते कथमुच्यते तव न कश्चिदपीत्यादीति । तत्रोच्यते — न वयमिति
निषेधाभावे केवलादुत्तरार्धान्नोक्त विशेषावगतिः स्यात् । संधिकालोचितकैत-
ववचनत्वेनैव संभाव्यमानत्वात् । अपितु तत्कालीन संध्यभिप्रायमात्रावगमः ।
निषेधेन तु तत्परिहारे युक्त उक्त विशेषावगम इत्यनुभवसाक्षिकमेतत् । सत्य-
वादित्वादिकं तूक्तविशेषे व्यञ्जनीये द्वारभूतं नतु तदेव । विशेषरूपमचमत्कारि-
वात् । अतएव नाहं दूतीत्यत्र वस्तुवादित्वादिर्विशेषो व्यज्यत इत्यलंकारसर्व-
स्वकारः । वस्तुवादित्वमादिर्द्वारभूतं यस्य तादृशो विशेष इति तदर्थ इति ।
एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम् ॥ ७४ ॥ अस्यैव प्रभेदान्तर-
माह - आक्षेपोऽन्य इति ॥ प्रार्थनया मरणसूचनद्वारेण । गर्भितो ब्यङ्ग्यत्वे-
नान्तर्भावितः । एतच्च तिरोहित इत्यस्यार्थकथनम् । तदेवमपहुतिभिन्नत्वे सति
चमत्कारकारिनिषेधत्वं सामान्यलक्षणं बोध्यम् ॥ ७५ ॥ इत्याक्षेपालंकारप्रक-
रणम् ॥ ३२ ॥
-
१ 'न्यविधौ व्यक्ते प्रतिषेधतिरोहिते'.