This page has been fully proofread twice.

नरेन्द्रमौले न वयं राजसंदेशहारिणः ।
जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदीक्ष्यते ॥
 
अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः । संधिकालोचितकैतववचनपरिहारेण ह्यर्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किंतु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति ॥ ७४ ॥
 
आक्षेपोऽ[^१]न्यो विधौ व्यक्ते निषेधे च तिरोहिते ।
गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्जनिर्मम ॥ ७५ ॥
 
अत्र गच्छेति विधिर्व्यक्तः । मा गा इति निषेधस्तिरोहितः कान्तोद्देश्यदेशे निजजन्मप्रार्थनयात्ममरणसंसूचनेन गर्भितः । यथावा --
 
न चिरं मम तापाय तव यात्रा भविष्यति ।
यदि यास्यसि यातव्यमलमाशङ्कयापि ते ॥
 
अत्रापि न चिरं मम तापायेति स्वमरणसंसूचनेन गमननिषेधो गर्भीकृतः ॥ ७५ ॥
 
--------------

 
[commentary]
 
नरेन्द्रेति ॥ संधिकरणार्थमागतानां दूतानामुक्तिः । नरेन्द्राणां राज्ञां मौलिः श्रेष्टः ॥ संधीति ॥ संधिकाले उचितं यत्कैतववचनं तत्परिहारेणोपलक्षिते इति पूर्ववदर्थः । अत्राहुः -- संदेश हारिषु तन्निषेधस्य बाधात् संदेशहारिपदेन कैतववचनप्रयोक्तृत्वविशिष्टं लक्ष्यते । तन्निषेधेन च सत्यवादित्वरूपो विशेषो व्यज्यत इत्ययमेव निषेधेन विशेषाक्षेपो नतु सर्वजगतीपालकस्येत्यादि विशेषो निषेधेन केवलेनाक्षेप्तुं शक्यते । तस्य जगत्कुटुम्बिन इत्युत्तरार्धगम्यत्वात् । एवं स्थिते कथमुच्यते तव न कश्चिदपीत्यादीति । तत्रोच्यते -- न वयमिति
निषेधाभावे केवलादुत्तरार्धान्नोक्तविशेषावगतिः स्यात् । संधिकालोचितकैतववचनत्वेनैव संभाव्यमानत्वात् । अपितु तत्कालीनसंध्यभिप्रायमात्रावगमः । निषेधेन तु तत्परिहारे युक्त उक्तविशेषावगम इत्यनुभवसाक्षिकमेतत् । सत्यवादित्वादिकं तूक्तविशेषे व्यञ्जनीये द्वारभूतं नतु तदेव । विशेषरूपमचमत्कारिवात् । अतएव नाहं दूतीत्यत्र वस्तुवादित्वादिर्विशेषो व्यज्यत इत्यलंकारसर्वस्वकारः । वस्तुवादित्वमादिर्द्वारभूतं यस्य तादृशो विशेष इति तदर्थ इति ।
एतेन नाहं दूतीति पूर्वोदाहरणमपि व्याख्यातम् ॥ ७४ ॥ अस्यैव प्रभेदान्तरमाह -- आक्षेपोऽन्य इति ॥ प्रार्थनया मरणसूचनद्वारेण । गर्भितो व्यङ्ग्यत्वेनान्तर्भावितः । एतच्च तिरोहित इत्यस्यार्थकथनम् । तदेवमपह्नुतिभिन्नत्वे सति चमत्कारकारिनिषेधत्वं सामान्यलक्षणं बोध्यम् ॥ ७५ ॥ इत्याक्षेपालंकारप्रकरणम् ॥ ३२ ॥
 
[^१] 'न्यविधौ व्यक्ते प्रतिषेधतिरोहिते'.