This page has been fully proofread twice.

आक्षेपालंकारः ३२
 
आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।
[^१]चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७३ ॥
 
अत्र प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसत्वेनानर्थक्यं विचार्याथवेत्यादिसूचितः प्रतिषेध आक्षेपः । यथावा --
 
साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।
यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥
गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम् ।
रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥
 
अत्र प्रथम श्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य स्वोल्लिखितवैचित्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ॥ ७३ ॥
 
निषेधाभासमाक्षेपं बुधाः केचन मन्वते ।
[^२]नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥ ७४ ॥
 
केचिदलंकारसर्वस्वकारादय इत्थमाहुः । न निषेधमात्रमाक्षेपः किंतु यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः । यथा दूत्या उक्तौ नायं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नायिकोज्जीवनीयेति विशेषमाक्षिपति । यथावा --
 
[commentary]
 
स्फुटेऽप्यप्रस्तुतार्थे तात्पर्यं गमयतीति भावः ॥ ७२ ॥ इति व्याजनिन्दाप्रकरणम् ॥ ३१ ॥
 
आक्षेप इति ॥ स्वयमुक्तस्यार्थस्य किंचिन्निभिमित्तमभिसंधाय प्रतिषेध आक्षेपः ॥ सूचितेति ॥ पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिक्षेपनियतत्वादिति भावः । नचात्र कैमर्थ्यरूपपञ्चमप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम् । तस्यात्र प्रतिषेधप्रतिनिमित्तत्वेनाप्राधान्यात् । असंदिग्धमुदाहरति --साहित्येति ॥ हे कविश्रेष्ठाः, साहित्यसमुद्ररूपाणां भारतादीनां मन्थनादिव परिशीलनादुत्थितमुत्पन्नं कर्णयोरमृतमिवाह्लादकं काव्यं रक्षत । यद्यस्मात्तस्य लुण्ठनार्थं दैत्या इव काव्यरूपस्यार्थस्य वित्तस्य चोराः प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः ॥ गृह्णन्त्विति ॥ यदि वेत्यथवेत्यनेन समानार्थं । लुप्तेषु अपहृतेषु ॥ स्वोल्लिखितेति ॥ स्वयमुद्भावितेत्यर्थः ।
वैचित्र्याणामर्थवैचित्र्याणाम् ॥ ७३ ॥ अर्थान्तरपर्यवसितः अर्थान्तरप्रतियोगिकत्वेनावस्थितः । विशेषं व्यङ्ग्यार्थविशेषम् ॥ संघटनेति ॥ संयोजनकाले उचितं यत्कैतववचनं मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे इत्यर्थः । नाहं दूतीत्यत्र हि दूतीपदेन दूतीगतमिथ्यावादित्वविशिष्टं लक्ष्यते । तदभावस्तु यद्यपि न यथार्थवादित्वं तथापि तदुपलक्ष्यत्वात्तत्पर्यवसानोक्तिः ॥
 
[^१] 'चन्द्रं संद'.
[^२] 'नायं दूती'.