This page has been fully proofread once and needs a second look.

कुवलयानन्दः । [ आक्षेपालंकारः ३२
आक्षेपालंकारः ३२
 

 
आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।

[^१]
चन्द्र संदर्शयात्मानमथवास्ति प्रियामुखम् ॥ ७३ ॥
 

 
अत्र प्रार्थितस्य चन्द्रदर्शनस्य प्रियामुखसत्वेनानर्थक्यं विचार्याथवेत्यादि-
सूचितः प्रतिषेध आक्षेपः । यथावा -
-
 
साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः ।

यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति ॥

गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम् ।
रत्रे

रत्ने
षु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः ॥
 

 
अत्र प्रथम श्लोकेन प्रार्थितस्य काव्यार्थचोरेभ्यो रक्षणस्य स्वोल्लिखितवैचि-
त्र्याणां समुद्रगतरत्नजालवदक्षयत्वं विचिन्त्य प्रतिषेध आक्षेपः ॥ ७३ ॥
 

 
निषेधाभासमाक्षेपं बुधाः केचन मन्वते ।
 

[^२]
नाहं दूती तनोस्तापस्तस्याः कालानलोपमः ॥ ७४ ॥

 
केचिदलंकारसर्वस्वकारादय इत्थमाहुः । न निषेधमात्रमाक्षेपः किंतु यो
निषेधो बाधितः सन्नर्थान्तरपर्यवसितः किंचिद्विशेषमाक्षिपति स आक्षेपः ।
यथा दूत्या उक्तौ नायं दूतीति निषेधो बाधितत्वादाभासरूपः संघटनकालो-
चितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्निदानीमेवागत्य नायिको-
ज्जीवनीयेति विशेषमाक्षिपति । यथावा-
९६
 
---
 

 
[commentary]
 
स्फुटेऽप्य प्रस्तुतार्थे तात्पर्यं गमयतीति भावः ॥ ७२ ॥ इति व्याजनिन्दाप्रक-
रणम् ॥ ३१ ॥
 
-
 

 
आक्षेप इति ॥ स्वयमुक्तस्यार्थस्य किंचिन्निभित्तमभिसंधाय प्रतिषेध आ
क्षेपः ॥ सूचितेति ॥ पक्षान्तरपरिग्रहस्य पूर्वपक्षप्रतिक्षेपनियतत्वादिति भावः ।
नचात्र कैमर्थ्यरूपपञ्चमप्रतीपप्रभेदेन गतार्थत्वं शङ्कनीयम् । तस्यात्र प्रतिषेधप्रति
निमित्तत्वेनाप्राधान्यात् । असंदिग्धमुदाहरति - -साहित्येति ॥ हे कविश्रेष्ठाः,
साहित्यसमुद्ररूपाणां भारतादीनां मन्थनादिव परिशीलनादुत्थितमुत्पन्नं कर्णयो-
रमृतमिवाह्लादकं काव्यं रक्षत । यद्यस्मात्तस्य लुण्ठनार्थं दैत्या इव काव्यरूपस्यार्थस्य
वित्तस्य चोराः प्रगुणीभवन्ति बहुलीभवन्तीत्यन्वयः ॥ गृह्णन्त्विति ॥ यदि वेय-
त्यथवेत्यनेन समानार्थं । लुप्तेषु अपहृतेषु ॥ स्वोल्लिखितेति ॥ स्वयमुद्भावितेत्यर्थः ।

वैचित्र्याणामर्थवैचित्र्याणाम् ॥ ७३ ॥ अर्थान्तरपर्यवसितः अर्थान्तरप्रतियो
गिकत्वेनावस्थितः । विशेषं व्यङ्ग्यार्थविशेषम् ॥ संघटनेति ॥ संयोजनकाले
उचितं यत्कैतववचनं मिथ्यावचनं तस्य परिहारस्तेनोपलक्षिते यथार्थवादित्वे
इत्यर्थः । नाहं दूतीत्यत्र हि दूतीपदेन दूतीगत मिथ्यावादित्वविशिष्टं लक्ष्यते ।
तदभावस्तु यद्यपि न यथार्थवादित्वं तथापि तदुपलक्ष्यत्वात्तत्पर्यवसानोक्तिः ॥
 

 

 
[^
] ' चन्द्रं संद'. [^ ]'नायं दूती'.