This page has been fully proofread twice.

जनिन्दारूपेयमप्रस्तुतप्रशंसेति चमत्कारातिशयः । एवमेव व्याजस्तुतिमूलकव्याजस्तुतिरूपाप्यप्रस्तुतप्रशंसा दृश्यते । यथावा --
 
लावण्यद्रविणव्ययो न गणितः क्लेशो महानर्जितः
स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः ।
एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता
कोऽर्थश्वेचेतसि वेध[^१]सा विनिहितस्तन्वीमिमां तन्वता ॥
 
अत्राप्रस्तुतायास्तरुण्याः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च तत्सौन्दर्यप्रशंसा प्रशंसनीयत्वेन, कविविवक्षितायाः स्वकवितायाः सृष्टिनिन्दाव्याजेन तन्निन्दाव्याजेन च शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यति । अस्य श्लोकस्य वाच्यार्थविषये यद्यपि नात्यन्तसामञ्जस्यं, नहीमे विकल्पा वीतरागस्येति कल्पयितुं शक्यम् । रसाननुगुणत्वाद्वीतरागहृदयस्याप्येवंविधविषयेष्वप्रवृत्तेश्च । नापि रागिण इति युज्यते । तदीयविकल्पेषु वराकीति कृपणतालिङ्गितस्य हतेत्यमङ्गलोपहितस्य च वचसोऽनुचितत्वात्तुल्यरमणाभावादित्यस्यात्यन्तमनुचितत्वाच्च स्वात्मनि तदनुरूपतासंभावनायामपि रागित्वे पशुप्रायता स्यात्, तथापि विवक्षितप्रस्तुतार्थतायां न किंचिदसामञ्जस्यम् । अतएवास्य श्लोकस्याप्रस्तुतप्रशंसापरत्वमुक्तं प्राचीनैः वाच्यासंभवेऽप्यप्रस्तुतप्रशंसोपपत्तेरिति ॥ ७२ ॥
 
[commentary]
 
स्तुतप्रशंसायाः । सैव अप्रस्तुतप्रशंसैव ॥ लावण्येति ॥ इमां तन्वीं तन्वता सृजता वेधसा चेतसि कोऽर्थः कामनाविषयभूतो विनिहितोऽभिसंहितः । किं प्रयोजनमुद्दिश्येयं निर्मितेत्यर्थः । नन्वनायासेनातिसुन्दरतन्वीनिष्पत्तिरेव प्रयोजनं तदभावेऽपि वा लीलामात्रेण तन्निर्माणं स्यादत आह -- लावण्येत्यादि ॥ यतो लावण्यरूपस्य द्रविणस्य धनस्य व्ययो न गणितः । महान्क्लेशोऽर्जितः कृतः । स्वेच्छाचारिणो जनस्य उदासीनस्यापि हृदये चिन्तैव ज्वरो निर्मितः । एषापि वराकी दीना स्वगुणानुरूपस्य वरस्याभावाद्धतेव हता नष्टप्राया । तथाच बह्वायाससाध्यत्वादनिष्टानुबन्धित्वाच्च न तन्व्याः प्रयोजनत्वं नापि लीलामात्रेण तन्निर्माणं च संभवतीति भावः । तन्निन्दाव्याजेन तरुणीनिन्दाव्याजेन । तत्सौन्दर्यप्रशंसा शब्दार्थचमत्कारातिशयप्रशंसायां पर्यवस्यतीत्यन्वयः । तन्निन्दाव्याजेन स्वकवितानिन्दाव्याजेन । कविता सौन्दर्यरूपा । प्रस्तुतार्थस्यात्यन्तमस्फुटत्वात्कथमस्य पद्यस्य तत्परत्वमित्याशङ्कामपनेतुं भूमिकामारचयति -- अस्येत्यादि । रसाननुगुणत्वादिति ॥ वीतरागे शृङ्गारस्यासंभवादिति भावः । ननु शृङ्गारासंभवेऽपि तन्वीनिर्माणनिन्दया शान्तरसपरिपोषादस्त्येव रसानुगुणत्वमत आह -- वीतरागेति ॥ नापि रागिण इत्यनन्तरमिमे विकल्पा इत्यनुषज्यते ॥ विवक्षितेति ॥ स्वकवितासौन्दर्यरूपेत्यर्थः । अतएव वाच्यार्थासामञ्जस्यादेव । वाच्यासंभवेऽपि वाच्यसामञ्जस्यासंभवेऽपि । तथाच वाच्यार्थासामञ्जस्यमेवा-
 
[^१] 'संहृतोऽत्र विधिना तन्वी'.