This page has been fully proofread twice.

व्याजनिन्दालंकारः ३१
 
निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते ।
विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः ॥ ७२ ॥
 
अत्र हरनिन्दया विषमविपाकं संसारं प्रवर्तयतो विधेरभिव्यङ्ग्या निन्दा
व्याजनिन्दा । यथावा --
 
विधिरेव विशेषगर्हणीयः करट त्वं रट कस्तवापराधः ।
सहकारतरौ चकार यस्ते सहवासं सरलेन कोकिलेन ॥
 
अन्यस्तुत्यान्यस्तुत्यभिव्यक्तिरिति पञ्चमप्रकारव्याजस्तुतिप्रतिबन्दीभूतेयं व्याजनिन्दा । ननु यत्रान्यस्तुत्यान्यस्तुतेरन्यनिन्दयान्यनिन्दायाश्च प्रतीतिस्तत्र व्याजस्तुतिव्याज निन्दालंकारयोरभ्युपगमे स्तुतिनिन्दारूपा प्रस्तुतप्रशंसोदाहरणेष्वप्रस्तुतप्रशंसा न वक्तव्या । तेषामपि व्याजस्तुतिव्याजनिन्दाभ्यां क्रोडीकारसंभवादिति चेदुच्यते । यत्राप्रस्तुतवृत्तान्तात्स्तुति निन्दारूपात्तत्सरूपः प्रस्तुतवृत्तान्तः प्रतीयते 'अन्तश्छिद्राणि भूयांसी'त्यादौ, तत्र लब्धावकाशा सारूप्यनिबन्धनाऽप्रस्तुतप्रशंसा, अत्रापि वर्तमाना न निवारयितुं शक्या ।अन्यस्तुत्याऽन्यस्तुतिरन्यनिन्दयाऽन्यनिन्देत्येवं व्याजस्तुतिव्याजनिन्दे अपि संभवतश्चेत्कामं ते अपि संभवेताम् । न त्वस्याः परित्यागः । यद्यपि 'विधिरेव विशेषगर्हणीय' इति श्लोके विधिनिन्दया तन्मूलकाकनिन्दया चाविशेषज्ञस्य प्रभोस्तेन च विद्वत्समतया स्थापितस्य मूर्खस्य च निन्दा प्रतीयत इति तत्र सारूप्यनिबन्धनाप्रस्तुतप्रशंसाप्यस्ति, तथापि सैव व्याजनिन्दामूलेति प्रथमोपस्थिता सापि तत्र दुर्वारा, एवं व्याजनिन्दामूलकव्या-
 
[commentary]
 
व्याजनिन्दां लक्षयति -- निन्दाया इति ॥ यत्रान्यनिन्दयान्यस्य निन्दाया अभिव्यक्तिः पर्यवस्यति सा व्याजनिन्दा, इतरनिन्दाव्याजेन निन्देति व्युत्पत्तेः ॥ विधे इति ॥ हे विधे ब्रह्मन्, प्राक् पूर्वं ते तवैकमेव शिरो यः अहरत् आच्छिनत् स एवार्थात् हरो निन्द्य इत्यन्वयः ।निन्दयेत्यभिव्यङ्ग्येत्यनेनान्वितम् । निन्दयाभिव्यङ्ग्यया विधेर्निन्दा व्याजनिन्देत्यन्वयः ।विषमविपाकं दारुणपरिणामम् ॥ विधिरेवेति ॥ विशेषतो गर्हणीयः निन्दनीयः । हे करट काक, त्वं रट रटनं कुरु । योऽसौ विधिः आम्रवृक्षे सरलेन सौम्येन कोकिलेन सहवासं तव चकारेत्यन्वयः । ननु केनाप्यालंकारिकेणानुक्ताया व्याजनिन्दायाः कथमलंकारत्वेनाङ्गीकरणमित्याशङ्क्याह -- प्रतिबन्दीति ॥ तुल्ययुक्त्या प्रतिबन्दीस्थानीयेत्यर्थः । तथाच स्तुतिवन्निन्दायामप्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषात्तदनन्तर्भावे व्याजस्तुतौ चार्थानुगमाभावादनन्तर्भावे पृथगलंकारताया औचित्यापातत्वात्प्राचीनैरनुक्तापि स्वीकर्तुमुचितेत्याशयः । प्रागुक्तयोरेकः कृती शकुन्तेष्विति, आबद्धकृत्रिमेत्यनयोरप्रस्तुतप्रशंसोदाहरणत्वासंगतिमाशङ्कते -- नन्विति ॥ क्रोडीकारः स्वविषयीकरणम् । अन्यत्र लब्धात्मकस्यालंकारद्वयस्य क्वचित्संकरेऽपि न दोष इत्याशयेन समाधत्ते -- यत्रेति ॥ एतच्च इत्यादावित्यनेनान्वितम् । अस्या अप्र
 
-