2023-04-25 09:32:44 by Bharadwajraki
This page has been fully proofread twice.
धन्याः खलु वने वाताः काह्लाराः सुखशीतलाः ।
राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः ॥
अत्र वाता धन्या इत्यप्रस्तुतार्थादहमधन्य इति वैधर्म्येण प्रस्तुतोऽर्थः प्रतीयत इति व्युत्पादितम् । इयमेवाप्रस्तुतप्रशंसा न कार्यकारणनिबन्धनेति दण्डी । यदाह --
'अप्रस्तुतप्रशंसा स्यादप्रकाण्डे तु या स्तुतिः ।
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ॥
अर्थैरयत्नसुलभैर्जलदर्भाङ्कुरादिभिः ।
सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते ॥
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ॥' इति ।
वस्तुतस्त्वत्र व्याजस्तुतिरित्येव युक्तं, स्तुत्या निन्दाभिव्यक्तिरित्यप्रस्तुतप्रशंसातो वैचित्र्यविशेषसद्भावात् । अन्यथा प्रसिद्धव्याजस्तुत्युदाहरणेष्वप्यप्रस्तुताभ्यां निन्दास्तुतिभ्यां प्रस्तुते स्तुतिनिन्दे गम्येते इत्येतावता व्याजस्तुतिमात्रमप्रस्तुत प्रशंसा स्यात् । एवंचानया प्रक्रियया यत्रान्यगतस्तुतिविवक्षयान्यस्तुतिः क्रियते तत्रापि व्याजस्तुतिरेव । अन्यस्तुतिव्याजेन
तदन्यस्तुतिरित्यर्थानुगमसद्भावात् । यथा --
शिखरिणि क्वनु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥
अत्र शुकशावकस्तुत्या नायिकाधरसौभाग्यातिशयस्तुतिर्व्यज्यते ॥ ७१ ॥
---------------
[commentary]
क्षुधासमये खादसि भक्षयसि । निद्राया आगमे च निद्रां प्राप्नोषि । तत्तस्मात्कुत्र तीर्थे किं नाम तपस्तप्तं तद्ब्रूहीत्यन्वयः ॥ निर्विण्णस्य खिन्नस्य । तेन हीत्यस्य इति व्युत्पादितमित्यग्रेतनेनान्वयः ॥ धन्या इति ॥ कह्लारं जलपुष्पविशेषः तत्सम्बन्धिनः काह्लाराः । सुखयन्तीति सुखाश्च ते शीतलाश्चेत्यर्थः ॥ अप्रस्तुतेति ॥ अप्रकाण्डे अप्रस्तावे । तथा चाप्रस्तुता चासौ प्रशंसा चेति व्युत्पत्तिरिति भावः । न परसेविनोऽपरसेविनः । प्रशस्यते स्तूयते । मतद्वयेऽप्यस्वरसबीजं दर्शयति -- वस्तुतस्त्विति ॥ अभिव्यक्तिरिति ॥ योऽप्रस्तुतप्रशंसातो वैचित्र्यस्य विषय आलम्बनभूतो विशेष इत्यन्वयः । अन्यथा ततो वैचित्र्येऽपि तदन्तभवानीकारे ॥ एवंचेति ॥ अन्यगतस्तुतिनिन्दाभ्यामन्यगतनिन्दास्तुत्यभिव्यक्तयोर्व्याजस्तुतित्वसिद्धौ चेत्यर्थः । प्रक्रियया प्रकारेण ॥ शिखरिणीति ॥ नायिकां प्रति नायकस्योक्तिः । हे तरुणि, असौ शुकबालकः । नाम वितर्के । क्वनु कस्मिञ्शिखरिणि पर्वते कियत्कालं चिरं किमभिधानं किंनामकं तपः अकरोद्येन हेतुना तवाधरवत्पाटलं रक्तवर्णं बिम्बफलं दशतीत्यन्वयः ॥ ७१ ॥ इति व्याजस्तुतिप्रकरणम् ॥ ३० ॥
कुव० १०