This page has not been fully proofread.

कुवलयानन्दः । [ व्याजस्तुत्यलंकारः ३०
 
अत्राद्योदाहरणे सप्तसप्तिपदगतश्लेषमूलनिन्दाव्याजेन स्तुतिर्यज्यते । द्वि-
तीयोदाहरणे सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदु-
प्यादि दारिद्र्यादि सर्व जानन्नपि बहुप्रदानेन रक्षितुं शक्तोऽपि मह्यं किमपि
न ददासीति निन्दा व्यज्यते । सर्वमिदं निन्दास्तुत्योरेकविषयत्वे उदाहर-
णम् । भिन्नविषयत्वे निन्दया स्तुत्यभिव्यक्तिर्यथा-
कस्त्वं वानर रामराजभवने लेखार्थसंवाहको
 
यातः कुत्र पुरागतः स हनुमान्निर्दग्धलङ्कापुरः ।
बद्धो राक्षससूनुनेति कपिभिः संताडितो भत्सितः
स व्रीडात्तपराभवो वनमृगः कुत्रेति न ज्ञायते ॥
अत्र हनुमन्निन्दया इतरवानरस्तुत्यभिव्यक्तिः ॥
स्तुत्या निन्दाभिव्यक्तिर्यथा-
९२
 
-
 
MADONN
 
यद्वक्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून्मृषा
नैषां गर्ववचः शृणोषि न च तान्प्रत्याशया धावसि ।
काले बालतृणानि खादसि परं निद्रासि निद्राग मे
 
तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥
अत्र हरिणस्तुत्या राजसेवानिर्विण्णस्यात्मनो निन्दाभिव्यज्यते । अयमप्र-
स्तुतप्रशंसाविषय इत्यलंकारसर्वस्वकारः । तेनहि सारूप्यनिबन्धन प्रस्तुत -
प्रशंसोदाहरणान्तरं वैधर्म्येणापि दृश्यते । यथा-
कस्यैकस्य विग्रहस्य प्रसिद्धेः । एवं गिरिजयाप्यवशिष्टार्धमाहृतम् । हे देव राजन्,
इत्थमुक्तप्रकारेण जगतीतले स्मरहरस्याभावे समुन्मीलति प्रकाशमाने सति गङ्गा
सागरं प्रत्यगमदित्याद्यन्वयः । नागाधिपः शेषः क्ष्मातलं पातालम् । त्वामिति
पूर्वान्वितम् ॥ वैदुष्यादीति ॥ विद्वत्तादीत्यर्थः । आदिना तपःशीलादिपरिग्रहः ।
दारिद्र्यादीत्यादिपदेन कुटुम्बबाहुल्यादिपरिग्रहः । नचात्र राजवर्णन प्रस्तावे कथं
स्तुतेर्व्याजरूपत्वमिति वाच्यम् । स्तुतिपर्यवसानविवक्षायां स्वकीयभिक्षाटनो-
द्घाटनस्यासंगतत्वेन स्तुतेरुचनिन्दारूपोपालम्भपर्यवसानस्यानुभवसिद्धस्या वि
रुद्धत्वात् ॥ कस्त्वमिति ॥ अङ्गदं प्रति कस्यचिद्राक्षसस्य प्रश्नः । रामरूपस्य
राज्ञो भवने लेखार्थस्य संदेशस्य वाहकोऽस्मीत्युत्तरम् । पुरा पूर्वमागतो निर्दग्ध-
लङ्कापुरः स हनुमान् कुत्र यात इति पुनः पूर्वस्य प्रश्नः । बद्ध इत्याद्युत्तरार्ध-
मङ्गदस्योत्तरम् । राक्षसस्य रावणस्य सूनुना बद्ध इति हेतोः कपिभिर्वानरैः
सम्यक् ताडितस्तर्जितः स वनमृगो हनुमान् व्रीडया लजया आत्तः प्राप्तः
पराभवो येन तादृशः कुत्र यात इति न ज्ञायत इत्यन्वयः ॥ यदिति ॥ हे कुरङ्ग,
यद्यस्माद्धनिनां मुखं मुहुर्मुहुर्वारंवारं नेक्षसे न पश्यसि । मृषा मिथ्या चाटून्
प्रियशब्दान्त्र वदसि । यदिति सर्वत्र संबध्यते । एषां धनिनां गर्वयुक्तवचनं
न शृणोषि । तान्धनिकान्प्रति आशया धनाशया न धावसि । परं केवलं काले
 
}
 
१ 'संताडितस्तजिंत:'.