This page has been fully proofread once and needs a second look.

व्याजस्तुत्यलंकारः ३०] अलंकारचन्द्रिकासहितः ।
 
९१
 
पूर्वत्र परेष्टसाधनमत्र कन्दुकशोधनार्थं नीवीविस्रंसनव्याजेन स्वेष्टसाधन-
मिति भेदः ॥ ६९ ॥
 

 
व्याजस्तुत्यलंकारः ३०

 
उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः ।

कः स्वर्धुनि विवेकस्ते पा[‌^१]पिनो नयसे दिवम् ॥ ७० ॥

साधु दूति पुनः साधु कर्तव्यं किमतः परम् ।

यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ७१ ॥
 

 
निन्दया स्तुतेः स्तुत्या निन्दाया वा अवगमनं व्याजस्तुतिः । कः स्वर्धु-
नीत्युदाहरणे विवेको नास्तीति निन्दाव्याजेन गङ्गा सुकृतिवदेव महापातका-
दिकृतवतोऽपि स्वर्गं नयतीति व्याजरूपया निन्दया तत्प्रभावातिशयस्तुतिः ।
साधु दूतीत्युदाहरणे मदर्थे महान्तं क्लेशमनुभूतवत्यसीति व्याजरूपया
स्तुत्या, मदर्थं न गतासि किंकिन्तु रन्तुमेव गतासि धिक्त्वां दूतिकाधर्मविरुद्ध-
कारिणीमिति निन्दावगम्यते । यथावा -
 
-
 
कस्ते शौर्यमदो योद्धुं त्वय्येकं सप्तिमास्थिते ।

सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः ॥

अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं
 

देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति ।

गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं

सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ॥
 

 
[commentary]
 
उक्तिरिति ॥ अत्र निन्दास्तुतिभ्यामिति स्तुति निन्दयोरिति चेतरेतरयोगो
न विवक्षितः । तथाच निन्दया स्तुतेः स्तुत्या च निन्दायाः स्तुत्या स्तुतेश्चोक्तिर-
भिव्यक्तिर्व्याजस्तुतिरित्यर्थः । प्रथमे व्याजेन स्तुतिरिति चरमयोर्व्याजरूपा स्तुति-
रिति च व्युत्पत्तेः । अतएव व्याजस्तुतिपदार्थानुगमाभावान्निन्दया निन्दाभिव्य-
क्तिर्व्याज निन्दाख्यमलंकारान्तरमित्यग्रे वक्ष्यते । अत एवमाद्ये प्रकारद्वये स्तुति-
जि
निन्दयोः समानविषयत्वभिन्न विषयत्वाभ्यां प्रत्येकं द्वैविध्यमिति चत्वारो भेदाः ।
अन्त्यस्तु भिन्न विषय स्तुतिक एक एवेति पञ्च भेदाः । लक्षणं तु व्याजनिन्दाभि-
न्नत्वे सति स्तुतिनिन्दान्य तरपर्यवसायिस्तुति निन्दान्यतरत्वं सर्वानुगतं बोध्यम् ॥

कस्त इति ॥ नृपं प्रति कवेरुक्तिः । त्वयि योद्धुमेकं सप्तिमश्वमास्थिते आरूढे
सति परिपन्थिनः शत्रवः सप्ताश्वसमारूढा भवन्तीत्यन्वयः । सप्त सप्तयोऽश्वा
अस्येति सूर्यः, सप्त च ते सप्तयोऽश्वास्तत्समारूढा इति द्वितीयोऽर्थो निन्दाद्योतकः ।
त्वया संमुखाहताः सूर्यमण्डलं भित्त्वा दिवमुपगता इति स्तुतौ पर्यवसानम् ॥
अर्धमिति ॥ शिवस्य देहार्धं दानवानां वैरिणा हरिणा आहृतम् । हरिहरात्म-

 
[‌^
]'पापिनं नयसे'.