2023-04-25 08:46:35 by Bharadwajraki
This page has been fully proofread twice.
प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि । चक्राभिघातप्रसभाज्ञयैवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरेणाभिधानसत्त्वात्सुयोजमेव । यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्तरीत्या प्रस्तुताङ्कुर एव । प्रस्तुतेन च राहोः शिरोमात्रावशेषेणालिङ्गनवन्ध्यत्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपेणावगमनं पर्यायोक्तस्य विषयः ॥ ६८ ॥
पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम् ।
यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६९ ॥
अत्र नायिकां नायकेन सङ्गमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । यथावा --
देहि मत्कन्दुकं राधे परिधाननिगूहितम् ।
इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥
[commentary]
व्यङ्ग्यतया यथाश्रुते बाधकाभावादिति भावः । नचाभिधाविषये कथं व्यञ्जनेति वाच्यम् । वासुदेवत्वादिना प्रतीयमाने भगवत्यभिधाविषयत्वासम्भवात् । तस्याः स्वावच्छेदकधर्मेणैव बोधकत्वात् । अतएवोक्तम् 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति । इह तु लक्षणाहेत्वभावाद्व्यञ्जनोपगम्यत इति । ननु प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहुशिरश्छेदनरूपकारणस्य प्रतीतौ चमत्कृतिविशेषस्तस्या अलंकारत्वं गमयति । तच्चालोच्यमानप्रस्तुतप्रशंसाया असंभवादुक्तरीत्या पर्यायोक्तरूपतयैव स्वीकर्तव्यमित्याशङ्क्याह -- यत्त्विति ॥ अलंकाराणामियत्तानियमाभावेन प्रस्तुताङ्कुरस्याप्यलंकारान्तरत्वादेवंविधशब्दस्वारस्य भङ्गेन प्राचीनलक्षणव्याख्यानमयुक्तमिति भावः । संक्षेपतो दर्शितमपि पर्यायोक्तविषयं विशदयति --प्रस्तुतेनेत्यादिना ॥ यत्तु भगवद्रूपेणावगमनं विशेषणमर्यादालभ्यत्वेन सुन्दरं पर्यायोक्तस्य विषय इति तदविचारितरमणीयम् । नहि पर्यायोक्तेर्व्यङ्ग्यसौन्दर्यकृतो विच्छित्तिविशेषः किन्तु भङ्ग्यन्तराभिधानकृत एव । व्यङ्ग्यं तु भङ्ग्यन्तराभिधानतः सुन्दरमेव प्रायशो दृश्यते । यथा इहागन्तव्यमिति विवक्षिते व्यङ्ग्ये अयं देशोऽलंकरणीयः सफलतामुपनेतव्य इत्यादौ । अतस्तदसुन्दरत्वोद्भावनमकिंचित्करमेव । अलंकारसर्वस्वकारग्रन्थविरोधोद्भावनं तु तच्छिक्षाकारिणं प्रति न शोभते । उपजीव्यत्वाद्भावनमपि ग्रन्थस्याकिंचित्करमेव ।
युक्तिविरोध इति परोत्कर्षासहिष्णुत्वमात्रमुद्भावयितुरवगमयतीत्यलं विस्तरेण ॥ ६८ ॥ प्रकारान्तरेण पर्यायोक्तं लक्षयति -- पर्यायोक्तमिति ॥ रमणीयेन व्याजेन मिषेण स्वस्य परस्य वा इष्टस्य यत्साधनं सम्पादनं तदपि पर्यायोक्तम् । पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ सम्पादनेति ॥ सम्पादनरूपं यदिष्टं तत्साधनं तत्करणमित्यर्थः ॥ देहीति ॥ परिधानेनाधरवस्त्रेण निगूहितमाच्छादितमित्यर्थः । एवंच प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम् ॥ ६९ ॥ इति पर्यायोक्तप्रकरणम् ॥ २९ ॥