This page has been fully proofread once and needs a second look.

९०
 
कुवलयानन्दः । [ पर्यायोक्तालंकारः २९
 
प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिवाधाने बहून्युदाहरणानि । चक्राभि-
घातप्रसभाज्ञयैवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरे-
णाभिधानसत्त्वात्सुयोजमेव । यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्त -
रीत्या प्रस्तुताङ्कुर एव । प्रस्तुतेन च राहोः शिरोमात्रावशेषेणालिङ्गनवन्ध्य-
त्वाद्यापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपे-
णावगमनं पर्यायोक्तस्य विषयः ॥ ६८ ॥
 

 
पर्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनम् ।
 

यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६९ ॥

 
अत्र नायिकां नायकेन सङ्गमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या
तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । यथावा -
-
 
देहि मत्कन्दुकं राधे परिधान निगूहितम् ।
 

इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥
 
I-

 
[commentary]
 
व्यङ्ग्यतया यथाश्रुते बाधकाभावादिति भावः । नचाभिधाविषये कथं व्यञ्जनेति
वाच्यम् । वासुदेवत्वादिना प्रतीयमाने भगवत्यभिधाविषयत्वासंसम्भवात् । तस्याः
स्वावच्छेदकधर्मेणैव बोधकत्वात् । अतएवोक्तम् 'शक्यादन्येन रूपेण ज्ञाते
भवति लक्षणा' इति । इह तु लक्षणाहेत्वभावाव्यञ्जनोपगम्यत इति । ननु
प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहुशिरश्छेदनरूपकारणस्य प्र-
तीतौ चमत्कृतिविशेषस्तस्या अलंकारत्वं गमयति । तच्चालोच्यमानप्रस्तुतप्रशंसा-
या असंभवादुक्तरीत्या पर्यायोक्तरूपतयैव स्वीकर्तव्यमित्याशङ्क्याह – यत्त्विति ॥
-- यत्त्विति ॥ अलंकाराणामियत्तानियमाभावेन प्रस्तुताङ्कुरस्याप्यलंकारान्तरत्वा देवंविधशब्द-
स्वारस्य भङ्गेन प्राचीनलक्षणव्याख्यानमयुक्तमिति भावः । संक्षेपतो दर्शितमपि
पर्यायोक्तविषयं विशदयति - -प्रस्तुतेनेत्यादिना ॥ यत्तु भगवद्रूपेणावगमनं
विशेषणमर्यादालभ्यत्वेन सुन्दरं पर्यायोक्तस्य विषय इति तदविचारितरमणीयम् ।
नहि पर्यायोक्तेर्व्यङ्ग्यसौन्दर्यकृतो विच्छित्तिविशेषः किंकिन्तु भङ्ग्यन्तराभिधानकृत
एव । व्यङ्ग्यं तु भङ्ग्यन्तराभिधानतः सुन्दरमेव प्रायशो दृश्यते । यथा इहागन्त-
व्यमिति विवक्षिते व्यङ्ग्ये अयं देशोऽलंकरणीयः सफलतामुपनेतव्य इत्यादौ । अ
तस्तदसुन्दरत्वोद्भाव नमकिंचित्करमेव । अलंकारसर्वस्वकार ग्रन्थविरोधोद्भावनं तु
तच्छिक्षाकारिणं प्रति न शोभते । उपजीव्यत्वाद्भावनमपि ग्रन्थस्याकिंचित्करमेव ।

युक्तिविरोध इति परोत्कर्षासहिष्णुत्व मात्रमुद्भावयितुरवगमयतीत्यलं विस्तरेण
॥ ६८ ॥ प्रकारान्तरेण पर्यायोक्तं लक्षयति -- पर्यायोक्तमिति ॥ रमणीयेन
व्याजेन मिषेण स्वस्य परस्य वा इष्टस्य यत्साधनं संसम्पादनं तदपि पर्यायोक्तम् ।
पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ संसम्पादनेति ॥ संसम्पादनरूपं यदिष्टं
तत्साधनं तत्करणमित्यर्थः ॥ देहीति ॥ परिधानेनाधरवस्त्रेण निगूहितमाच्छा-
दितमित्यर्थः । एवंच प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम् ॥ ६९ ॥
इति पर्यायोक्तप्रकरणम् ॥ २९ ॥
 
-