This page has been fully proofread once and needs a second look.

पर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः ।
 
अत्र यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि तद्वाक्यार्थव्यवस्थितौ वे-
दत्वाद्याकारेणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिताः
परं
परन्तु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपा-
दिताः । अत्रालंकारसर्वस्वकृतापि पर्यायोक्तस्य संसम्प्रदायागतमिदमेव लक्षण-
मङ्गीकृतं गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तमिति ।
 

 

 
'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
 

आलिङ्गनोहामविलासवन्ध्यं रतोत्सवं चुम्बनमानशेषम्

 
इति प्राचीनं तदुदाहरणं त्वन्यथा योजितं -- राहुवधूगतेन विशिष्टेन
रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यत इति । एवंच गम्यस्यैवाभिधा-
नमिति लक्षणस्यानुपपत्तिमाशङ्ख्क्याह यद्गम्यं तस्यैवाभिधानं लक्षणे विवक्षि-
तमिति । लक्षणं क्लिष्टगत्या योजितं लोचनकृता 'पर्यायोक्तं यदन्येन प्रकारे-
णाभिधीयते' इति । इदमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दाभि-
हितेन कारणं व्यङ्ग्यं प्रदर्श्य तत्र लक्षणं लक्ष्यं नाम च क्लिष्टगत्या योजितम् ।

वाच्यादन्येन प्रकारेण व्यङ्ग्येनोपलक्षितं सद्यदभिधीयते तत्पर्यायेण प्रकारा-
न्तरेण व्यङ्ग्येनोपलक्षितमुक्तमिति सर्वोऽयं क्लेश: किमर्थ इति न विद्मः ।
 
-
 

 
[commentary]
 
नीयभस्मसंबन्धित्वात् । मदनभस्मना शिवेनाङ्गानामनुलेपनस्य पुराणेषु प्रसिद्धेः ।
अत्र लक्षणं संगमयति — अत्रेति ॥ व्यवस्थितौ विवक्षायां सत्याम् ।
अवगम्या व्यङ्ग्याः ॥ विनेयत्वेति ॥ शिक्षणीयत्वेत्यर्थः । आदिना पाताल-
गुप्तत्वादिपरिग्रहः ॥ अभिहिता इति ॥ वाहाद्यधिकृतत्वादिना व्यासादिप्रति
पत्तौ समानवित्तिवेद्यत्वेन व्यासादिविनेयत्वादेरपि तेष्ववगमादिति भावः ।
साक्षादेव व्यासादिविनेयत्वायाकारेण किमिति न निर्दिष्टा इत्याशङ्क्याह -
परं
- परन्त्विति ॥ यद्यप्युक्त विशेष्य विशेषणभावेऽपि देवतासार्वभौमत्वमवगम्यते

तथापि स्फुटप्रतिपत्त्यर्थं तद्वैपरीत्यं कृतमित्यर्थः ॥ चक्रेति ॥ यो देवः सुदर्श -
नचक्रस्याभिघाते या प्रसभमाज्ञा तयैव राहुवधूजनस्य रतोत्सवमालिङ्गन-
स्योद्दामा उद्भटा ये विलासास्तैर्वन्ध्यं रहितं चुम्बनमात्रावशेषं चकारेत्यन्वयः ।
विशिष्टेनोक्तविशेषणविशिष्टेन । एवंचेदृशोदाहरणयोजने च ॥ अनुपपत्तिमिति ॥
गम्यस्य राहुशिरश्छेदस्य भङ्ग्यन्तरेणानभिधानादव्याप्तिमाशङ्क्येत्यर्थः ॥ अभि-
धानायोगात् । अयमाशयः । अत्रहि राहुशिरश्छेदकारीति वासुदेव इति वा
व्यङ्ग्यं राहुवधूजन संबन्धि तादृशरतोत्सवका रित्वेन प्रकारान्तरेणाभिधीयत इति
न वक्तुं शक्यम् । धर्मिणो वासुदेवस्य प्रक्रान्तत्वेन यच्छब्दाभिहितत्वेन च
व्यङ्ग्य त्वायोगात् । व्यङ्ग्यस्य च राहुशिरश्छेदकारित्वस्य वासुदेवत्वस्य वा धर्मस्य
प्रकारान्तरेणानमिधानात् । तस्मात्पर्यायेण कार्यादिद्वारेणोक्तं गम्यमाक्षिप्तं वेति
लक्षणार्थः । अभिधानमाक्षेपो व्यञ्जनं वा ॥ पर्यायोक्तमिति ॥ क्वचित्पर्या-
योक्ते इति पाठस्त्वयुक्तः । व्यङ्ग्येनोपलक्षितमुक्तमिति व्याख्यानग्रन्थ विरोधात् ॥
न विद्म इति ॥ यच्छन्दाभिहितस्यापि भगवतो वासुदेवत्वादिना रूपान्तरेण