This page has not been fully proofread.

कुवलयानन्दः । [ पर्यायोक्तालंकारः २९
 
न्वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण
स एवाभिहितः ।
 
८८
 
लोकं पश्यति यस्याङ्गिः स यस्याङ्गिं न पश्यति ।
ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥
 
अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्याम-
भिहितौ । यथावा-
निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् ।
पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥
अत्र कियहूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथावा-
देवं वन्दे जलधिशरधिं देवतासार्वभौमं
 
व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः ।
भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी
 
शाटीपालाः शतमखमुखाश्चन्दनदुर्मनोभूः ॥
 
-
 
स्वपदं व्यङ्ग्यपरम् । नच व्यङ्ग्यस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रका-
रभेदात् । तदुक्तम् – 'यदेवोच्यते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथोच्यते'
इति । चारुतरेणेति विशेषणात् । 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे'
इत्यत्र न पर्यायोक्तप्रसङ्गः । स्वासाधारणरूपेण वासुदेवत्वेन । यत्तु राहुशिरश्छे-
दकारित्वरूपव्यङ्ग्य मादायैव पर्यायोक्तं वक्तुमर्ह नतु विशेषणसामर्थ्यलयं
वासुदेवत्वमादायेति । तदयुक्तम् । राहुशिरश्छेदकारित्वस्य वाच्य सिद्ध्यङ्गत्वेन
तेनापि विवक्षितं व्यङ्ग्यं प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात् ।
'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र तु राहु शिरश्छेदकारित्वमेव विव-
क्षितं व्यङ्ग्यमिति युक्तं, तदादाय पर्यायोक्तमिति विभावनीयम् ॥ लोकमिति ॥
यस्याक्षपादस्यामिर्लोकं पश्यति । अथ च स लोको यस्य पतञ्जलेः शेषावतार-
स्याङ्गं न पश्यति उरगत्वात् । ताभ्यामक्षपादपतञ्जलिभ्यामपरिच्छेद्या अना-
कलनीया ॥ निवेद्यतामिति ॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं
मनः कर्तृ । शिरीषकलिकामृदुत्वाभिमानमपनयन्तौ इमौ पादौ कियहूरप-
र्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे । एतन्निवेद्यताम् । कथ्यतामित्यर्थः ॥
देवमिति ॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे । कीदृशम् । जल-
घिरेव शरधिस्तूणो यस्य तथाभूतम् । त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्ति-
स्थानत्वात् । तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्टोऽग्यो येषां ते व्यास-
प्रमुखा वसिष्ठाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता
भवन्ति । 'पुरोगाग्रेसरप्रष्टाग्रतःसरपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं
भूषणपेटिका सर्पभूषणत्वात् । पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीय चन्द्रो-
द्वमाधारत्वात् । शतमख इन्द्रस्तत्प्रमुखा अम्यादयो दिक्पालाः शाटीपालना-
धिकृताः दिगम्बरत्वेन दिशामेव शाटीरूपत्वात् । मनोभूश्चन्दनतरुः चन्दनस्था-
-
 
-