This page has been fully proofread twice.

न्वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैयर्थ्यकारकत्वेन रूपान्तरेण स एवाभिहितः ।
 
लोकं पश्यति यस्याङ्घ्रिः स यस्याङ्घ्रिःरिं न पश्यति ।
ताभ्यामप्यपरिच्छेद्या विद्या विश्वगुरोस्तव ॥
 
अत्र गौतमः पतञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्यामभिहितौ । यथावा --
 
निवेद्यतां हन्त समापयन्तौ शिरीषकोशम्रदिमाभिमानम् ।
पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥
 
अत्र कियद्दूरं जिगमिषेति गम्य एवार्थो रूपान्तरेणाभिहितः । यथावा --म्
 
देवं वन्दे जलधिशरधिं देवतासार्वभौमं
व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः ।
भूषापेटी भुवनमधरं पुष्करं पुष्पवाटी
शाटीपालाः शतमखमुखाश्चन्दनदुद्रुर्मनोभूः ॥
 
[commentary]
 
स्वपदं व्यङ्ग्यपरम् । नच व्यङ्ग्यस्यैव वाच्यत्वं निष्फलं विरुद्धं चेति वाच्यं प्रकारभेदात् । तदुक्तम् -- 'यदेवोच्यते तदेव व्यङ्ग्यं यथा तु व्यङ्ग्यं न तथोच्यते' इति । चारुतरेणेति विशेषणात् । 'नमो राहुशिरश्छेदकारिणे दुःखहारिणे' इत्यत्र न पर्यायोक्तप्रसङ्गः । स्वासाधारणरूपेण वासुदेवत्वेन । यत्तु राहुशिरश्छेदकारित्वरूपव्यङ्ग्यमादायैव पर्यायोक्तं वक्तुमर्हं नतु विशेषणसामर्थ्यलभ्यं वासुदेवत्वमादायेति । तदयुक्तम् । राहुशिरश्छेदकारित्वस्य वाच्यसिद्ध्यङ्गत्वेन तेनापि विवक्षितं व्यङ्ग्यं प्रधानभूतं वासुदेवत्वं तदादायैव तत्कथनौचित्यात् । 'राहुस्त्रीकुचनैष्फल्यकारिणे हरये नमः' इत्यत्र तु राहुशिरश्छेदकारित्वमेव विवक्षितं व्यङ्ग्यमिति युक्तं, तदादाय पर्यायोक्तमिति विभावनीयम् ॥ लोकमिति ॥यस्याक्षपादस्याङ्घ्रिर्लोकं पश्यति । अथ च स लोको यस्य पतञ्जलेः शेषावतारस्याङ्घ्रिं न पश्यति उरगत्वात् । ताभ्यामक्षपादपतञ्जलिभ्यामपरिच्छेद्या अनाकलनीया ॥ निवेद्यतामिति ॥ नलं प्रति दमयन्त्या उक्तिः । तव अल्पदयं मनः कर्तृ । शिरीषकलिकामृदुत्वाभिमानमपनयन्तौ इमौ पादौ कियद्दूरपर्यन्तं प्रयासे निधातुमिच्छति । हन्त खेदे । एतन्निवेद्यताम् ।कथ्यतामित्यर्थः ॥ देवमिति ॥ देवतासार्वभौमं सकलदेवताधीश्वरं देवं वन्दे । कीदृशम् । जल-घिरेव शरधिस्तूणो यस्य तथाभूतम् । त्रिपुरसंहारे शरीकृतस्य विष्णोर्विश्रान्तिस्थानत्वात् । तथा भुवनेषु विदिताः ख्याताः व्यासः प्रष्टोऽग्र्यो येषां ते व्यासप्रमुखा वसिष्ठाद्या यस्य वाहानां वाहनानां वेदानामधिवाहा वाहनाधिकृता भवन्ति । 'पुरोगाग्रेसरप्रष्टाग्रतःसरपुरःसराः' इत्यमरः । एवमधरं भुवनं पातालं भूषणपेटिका सर्पभूषणत्वात् । पुष्करमाकाशं पुष्पवाटिका पुष्पस्थानीयचन्द्रोद्माधारत्वात् । शतमख इन्द्रस्तत्प्रमुखा अम्ग्न्यादयो दिक्पालाः शाटीपालना-धिकृताः दिगम्बरत्वेन दिशामेव शाटीरूपत्वात् । मनोभूश्चन्दनतरुः चन्दनस्था-