2023-02-17 12:58:55 by ambuda-bot
This page has not been fully proofread.
पर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः ।
८७
दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां
तप्तायः पतिताम्बुवत्करतले धाराम्बु संलीयते ॥
अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय संतापवत्कार्याणि मृणाल
मालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन संतापोऽवगम्यः ।
यत्र कार्यमुखेन कारणस्यावगतिरपि लोके निबद्धा न तत्रायमलंकारः किं-
त्वनुमानमेव । यथा -
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं प्रेशिथिलभुजाक्षेपवलनैः
कृशाङ्क्या: संतापं वदति नलिनीपत्रशयनम् ॥ ६७ ॥
पर्यायोक्तालंकारः २९
पर्यायोक्तं तु गैम्यस्य वचो भङ्ग्यन्तराश्रयम् ।
नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥
यदेव गम्यं विवक्षितं तस्यैव भङ्ग्यन्तरेण विवक्षितरूपादपि चारुतरेण
केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा-
ण्डं भृङ्गेभ्यो विशेषरहितां तत्समां रुचं कान्तिमयते प्राप्नोति । तापातिशयेन
मलिनीभावात् । नासामौक्तिकं श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणेः पदवीं
तत्साम्यं गाहते प्राप्नोति । तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूरं क्षणं
दीपरूपतां धत्ते । एवं करतले धारारूपेण सितं जलं तप्तायः पिण्डपतितजलव-
त्संलीयते । तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धन-
त्वं व्यक्तम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः । अयमित्यु-
पलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किंकृतस्तर्हि तत्र चमत्कारोऽत
आह — किंत्विति ॥ परीति ॥ रत्नावल्यां स्वविरहातुरायाः सागरिकायाः
शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशामयाः संतापं
वदत्यनुमापयति । किंभूतम् । पीनस्तनजघनसङ्गादुभयत ऊर्ध्वाधोभागयोः
परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तर्मध्यभागे हरित-
वर्णम् । एवं प्रकर्षेण शिथिलयोर्भुजयोराक्षेपैर्वलनैश्च व्यस्तः विषमीकृतो न्यासो
रचना यस्य तादृशमिति ॥ ६७ ॥ इति प्रस्तुताङ्कुरप्रकरणम् ॥ २८ ॥
-
ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यत्वमपि प्रस्तुताङ्कुर विषयश्चेतिक
तर्हि पर्यायोक्तमित्याकाङ्क्षायामाह - पर्यायोक्तमिति ॥ वचः प्रतिपादनं । भङ्ग्य-
न्तराश्रयं भङ्ग्यन्तरप्रकारकम् ॥ लक्षणं परिष्कुरुते—यदेवेति ॥ तथाच विव-
क्षितस्वप्रकारातिरिक्तेन चारुतरेण रूपेण व्यङ्ग्यस्याभिधानं पर्यायोक्तमिति लक्ष-
णम् । पर्यायेण भङ्ग्यन्तरेणोक्तमभिहितं व्यङ्ग्यं यत्रेति व्युत्पत्तेः । लक्षणे
१ ''श्रथभुजलताक्षेप'. २ 'गम्यश्चेद्रचो भङ्ग्यन्तराश्रयः '.