2023-04-25 07:12:39 by Bharadwajraki
This page has been fully proofread twice.
दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां
तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥
अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय सन्तापवत्कार्याणि मृणालमालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन सन्तापोऽवगम्यः यत्र कार्यमुखेन कारणस्यावगतिरपि श्लोके निबद्धा न तत्रायमलंकारः किंत्वनुमानमेव । यथा --
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं प्र[^१]शिथिलभुजाक्षेपवलनैः
कृशाङ्क्या:ग्याः सन्तापं वदति नलिनीपत्रशयनम् ॥ ६७ ॥
--------------
पर्यायोक्तालंकारः २९
पर्यायोक्तं तु ग[^२]म्यस्य वचो भङ्ग्यन्तराश्रयम् ।
नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥
यदेव गम्यं विवक्षितं तस्यैव भङ्ग्यन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा-
[commentary]
ण्डं भृङ्गेभ्यो विशेषरहितां तत्समां रुचं कान्तिमयते प्राप्नोति । तापातिशयेन मलिनीभावात् । नासामौक्तिकं श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणेः पदवीं तत्साम्यं गाहते प्राप्नोति । तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूरं क्षणं दीपरूपतां धत्ते । एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलवत्संलीयते । तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धनत्वं व्यक्तम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः । अयमित्यु-पलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किंकृतस्तर्हि तत्र चमत्कारोऽत आह -- किंत्विति ॥ परीति ॥ रत्नावल्यां स्वविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशामङ्ग्याः सन्तापं वदत्यनुमापयति । किंभूतम् । पीनस्तनजघनसङ्गादुभयत ऊर्ध्वाधोभागयोः परिम्लानं तनोः कृशस्य मध्यस्य परिमिलनं संघर्षमप्राप्य अन्तर्मध्यभागे हरितवर्णम् । एवं प्रकर्षेण शिथिलयोर्भुजयोराक्षेपैर्वलनैश्च व्यस्तः विषमीकृतो न्यासो रचना यस्य तादृशमिति ॥ ६७ ॥ इति प्रस्तुताङ्कुरप्रकरणम् ॥ २८ ॥
ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यत्वमपि प्रस्तुताङ्कुर विषयश्चेत्किं तर्हि पर्यायोक्तमित्याकाङ्क्षायामाह -- पर्यायोक्तमिति ॥ वचः प्रतिपादनं । भङ्ग्यन्तराश्रयं भङ्ग्यन्तरप्रकारकम् ॥ लक्षणं परिष्कुरुते -- यदेवेति ॥ तथाच विवक्षितस्वप्रकारातिरिक्तेन चारुतरेण रूपेण व्यङ्ग्यस्याभिधानं पर्यायोक्तमिति लक्षणम् । पर्यायेण भङ्ग्यन्तरेणोक्तमभिहितं व्यङ्ग्यं यत्रेति व्युत्पत्तेः । लक्षणे
[^१]' 'श्रलथभुजलताक्षेप' .
[^२] 'गम्यश्चेद्रवचो भङ्ग्यन्तराश्रयः '.
तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥
अत्र नायिकाया विरहासहत्वातिशयप्रकटनाय सन्तापवत्कार्याणि मृणालमालिन्यादीन्यपि वर्णनीयत्वेन विवक्षितानीति तन्मुखेन सन्तापोऽवगम्यः यत्र कार्यमुखेन कारणस्यावगतिरपि श्लोके निबद्धा न तत्रायमलंकारः किंत्वनुमानमेव । यथा --
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् ।
इदं व्यस्तन्यासं प्र[^१]शिथिलभुजाक्षेपवलनैः
कृशाङ्
--------------
पर्यायोक्तालंकारः २९
पर्यायोक्तं तु ग[^२]म्यस्य वचो भङ्ग्यन्तराश्रयम् ।
नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ ॥ ६८ ॥
यदेव गम्यं विवक्षितं तस्यैव भङ्ग्यन्तरेण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिधानं पर्यायोक्तम् । उत्तरार्धमुदाहरणम् । अत्र भगवा-
[commentary]
ण्डं भृङ्गेभ्यो विशेषरहितां तत्समां रुचं कान्तिमयते प्राप्नोति । तापातिशयेन मलिनीभावात् । नासामौक्तिकं श्वासानिलादत्युष्णाद्धेतोरिन्द्रनीलमणेः पदवीं तत्साम्यं गाहते प्राप्नोति । तथा कुचयोर्दत्ता निहितेयं हिमवालुका कर्पूरं क्षणं दीपरूपतां धत्ते । एवं करतले धारारूपेण सिक्तं जलं तप्तायःपिण्डपतितजलवत्संलीयते । तापातिशयाच्छोषं प्राप्नोतीत्यर्थः । उदाहरणद्वयेऽपि कार्यनिबन्धनत्वं व्यक्तम् ॥ न तत्रायमिति ॥ द्वयोरपि वाच्यत्वादिति भावः । अयमित्यु-पलक्षणम् । अप्रस्तुतप्रशंसापि नेति बोध्यम् । किंकृतस्तर्हि तत्र चमत्कारोऽत आह -- किंत्विति ॥ परीति ॥ रत्नावल्यां स्वविरहातुरायाः सागरिकायाः शयनमुपगतस्य राज्ञ इयमुक्तिः । इदं बिसिनीपत्ररचितं शयनं कृशा
ननु प्रस्तुतकार्याभिधानमुखेन कारणस्य गम्यत्वमपि प्रस्तुताङ्कुर
[^१]
[^२] 'गम्यश्चेद्