This page has been fully proofread twice.

तस्त्वयमध्यलंकार एव ध्वनिरिति व्यवस्थापितं चित्रमीमांसायाम् । तृतीयोदाहरणस्य त्वलंकारत्वे कस्यापि न विवादः । उक्तं हि ध्वनिकृता --
 
'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिर्ध्वनेः ॥' इति ।
 
एतान्यपि सारूप्यनिबन्धनान्युदाहरणानि सम्बन्धान्तरनिबन्धनान्यपि कथंचिद्वाच्यव्यङ्ग्ययोः
प्रस्तुतत्वलम्भनेनोदाहरणीयानि । दिङ्मात्रमुदाहिह्रियते --
 
रात्रिः शिवा काचन सन्निधत्ते विलोचने जाग्रतमप्रमत्ते ।
समानधर्मा युवयोः सकाशे सखा भविष्यत्यचिरेण कश्चित् ॥
 
अत्र शिवसारूप्यमिव तदेकदेशतया तद्वाच्यं ललाटलोचनमपि शिवरात्रिमाहात्म्यप्रयुक्तत्वेन वर्णनीयमिति तन्मुखेन कृत्स्नं शिवसारूप्यं गम्यम् ।
 
यथावा --
 
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-
त्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ।
तनोतु क्षेमं नस्तव वदन सौन्दर्यलहरी-
परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ॥
 
अत्र वर्णनीयत्वेन प्रस्तुतायाः सीमन्तसरणेर्वदनसौन्दर्यपरीवाहत्वोत्प्रेक्षणेन परिपूर्णतटाकवत्परीवाहकारणीभूता स्वस्थाने अमान्ती वदनसौन्दर्यसमृद्धिः प्रतीयते । सापि वर्णनीयत्वेन प्रस्तुतैव ॥ यथावा --
 
अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं
नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्गाहते ।
 
[commentary]
 
मिति ॥ प्रस्तुतत्वेऽपि मुख्यतया तात्पर्याभावादत्राप्यभिधापर्यवसानाभावादिति भावः ॥ सान्यैवेति ॥ सा अलंकृतिर्ध्वनेः सकाशादन्यैवेत्यर्थः । प्रस्तुतत्वलम्भनेन प्रस्तुतत्वप्राप्त्या ॥ रात्रिरिति ॥ हे विलोचने, शिवा कल्याणरूपा काचनानिर्वचनीयप्रभावा रात्रिः । शिवरात्रिरित्यर्थः । सन्निधत्ते संनिहिता भवति । अतो युवां अप्रमत्ते जाग्रतं जाग्रद्रूपे भवतम् । कुतस्तत्राह । युवयोः सकाशे समीपे अचिरेण समानधर्मा सदृशः सखा कश्चिद्भविष्यति । तृतीयं लोचनं भाले भविष्यतीत्यर्थः । तदेकदेशतयेति शिवरात्रिमाहात्म्यप्रयुक्तत्वे हेतुस्तत्र वर्ण्यते । तद्वाच्यमुदाहृतकाव्यवाच्यम् । एवं चैकदेश्येकदेशभाव सम्बन्धनिबन्धनत्वमत्र दर्शितम् ॥ वहन्तीति ॥ भगवत्याः सीमन्तवर्णनमिदम् । अयि शिवे, तव सीमन्तसरणिर्न:नः क्षेमं तनोलित्वित्यन्वयः । कीदृशी । सिन्दूरं वहन्ती । कमिव । प्रबलानां केशपाशरूपान्धकारदीप्तीनां
समूहैर्बन्दीकृतं बालार्ककिरणमिव । सरणिः केव । त्वद्वदनसौन्दर्यलहरीणां परीवाहरूपा स्रोतसः सरणिरिवेति । परीवाहो जलनिर्गममार्गः । 'जलोच्छ्वासाः परीवाहाः' इत्यमरः ॥ अङ्गेति ॥ विरहसन्तापवर्णनम् । अङ्गसंबद्धं मृणालका-