This page has been fully proofread twice.

मानशालिन्याः क्रूरजनपरिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्वापहरणसंकल्पदुरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकल्पायां प्रवर्तमानं प्रियतमं प्रत्युपालम्भो द्योत्यते । यथावा --
 
अन्यासु तावदुपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
बालामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥
 
अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुतत्वम् । इदंच प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयति कामिनि शृण्वति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते । यथावा --
 
कोशद्वन्द्वमियं दधाति नलिनी कादम्बचञ्चुक्षतं
धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे
चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥
 
अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकायास्तट इत्यनेन च वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम् । प्रस्तुतान्तरद्योतनं चोत्तरार्धे स्वयमेव कविनाविष्कृतम् ।अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः -- अप्रस्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति । तन्त्राभिधायामपर्यवसितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इहतु वाच्यस्य प्रस्तुतत्वेन तत्राभिधायां पर्यवसितायामर्थसौन्दर्यबलेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति । वस्तु-
 
[commentary]
 
वेश्यायामिति च विषयसप्तमी । तद्विषय इत्यर्थः । विटानां सर्वस्वाहरणे यः संकल्पस्तेन दुःप्रापेति वेश्याविशेषणम् ॥ अन्येति ॥ हे भृङ्ग, अन्यासूपमर्दक्षमासु सुमनसां पुष्पाणां लतासु तावद्यावन्नवमल्लिकायाः कलिका संजातरजस्का भवति । लोकं चपलं मनो विनोदय । लोकमिति क्रियाविशेषणं वा । नवमल्लिकाया लताविशेषस्य बालामभिनवामसंजातरजस्कां कलिकामकाले व्यर्थं किमिति कदर्थयसि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्च ॥ शृण्वतीति ॥ एतद्वचनं शृण्वति सतीत्यर्थः ॥ कोशेति ॥ इयं नलिनी कमलिनी कोशद्वन्द्वं मुकुलयुगलं कादम्बस्य हंसस्य चञ्च्वा क्षतं कृतक्षतं दधाति धत्ते, तथेयं चूतस्याम्रस्य लता नूतनं पल्लवं पुंरूपैः कोकिलैरास्वादितं चर्वितं धत्ते इति दीर्घिकाया वाप्यास्तटे मिथः परस्परं सखीजनस्य वच आकर्ण्य सा प्रस्तुता नायिका कमलमुकुलाम्रपल्लवव्याजेनैता मदीयस्तनाधरक्षतवृत्तान्तं कथयन्तीति ज्ञात्वा चैलस्य वस्त्रस्यान्तेन प्रान्तेन स्तनतटं तिरोदधे, बिम्बरूपमघरं च पाणिना तिरोदध आच्छादितवतीत्यन्वयः ॥ अन्यापदेशेति ॥ अन्यस्यापदेशो मिषं यत्र तादृशमित्यर्थः । तदीयमेव ग्रन्थं दर्शयति -- अप्रस्तुतेत्यादि । व्यवस्थापित-