This page has been fully proofread once and needs a second look.

प्रस्तुताङ्कुरालंकारः २८] अलंकारचन्द्रिकासहितः ।
 
मानशालिन्याः क्रूरजन परिवृत्तिदुष्प्रधर्षायां परवनितायां विटसर्वस्वापहर-
णसंकल्प दुरासदायां वेश्यायां वा कण्टकसंकुलकेतकीकल्पायां प्रवर्तमानं
प्रियतमं प्रत्युपालम्भो द्योत्यते । यथावा -
-
 
अन्यासु तावदुपमर्दसहासु भृङ्ग

लोलं विनोदय मनः सुमनोलतासु ।

बालामजातरजसं कलिकामकाले
 

व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥
 

 
अत्राप्युद्यानमध्ये चरन्तं भृङ्गं प्रत्युपालम्भ इति वाच्यार्थस्यापि प्रस्तुत
त्वम् । इदंच प्रौढाङ्गनासु सतीषु बालिकां रतये क्लेशयति कामिनि शृण्व-
ति कस्याश्चिद्विदग्धाया वचनमिति तं प्रत्युपालम्भो द्योत्यते । यथावा -
-
 
कोशद्वन्द्वमियं दधाति नलिनी कादम्बचबुञ्चुक्षतं
 

धत्ते चूतलता नवं किसलयं पुंस्कोकिलास्वादितम् ।

इत्याकर्ण्य मिथः सखीजनवचः सा दीर्घिकायास्तटे
 

चैलान्तेन तिरोदधे स्तनतटं बिम्बाधरं पाणिना ॥

 
अत्रेयमिति नलिनीव्यक्तिविशेषनिर्देशेन दीर्घिकायास्तट इत्यनेन च
वाच्यार्थस्य प्रस्तुतत्वं स्पष्टम् । प्रस्तुतान्तरद्योतनं चोत्तरार्धे स्वयमेव कवि-
नाविष्कृतम् । अत्राद्योदाहरणयोरन्यापदेशध्वनिमाह लोचनकारः -- अप्र-
स्तुतप्रशंसायां वाच्यार्थोऽप्रस्तुतत्वादवर्णनीय इति । तन्त्राभिधायामपर्यव
सितायां तेन प्रस्तुतार्थव्यक्तिरलंकारः । इहतु वाच्यस्य प्रस्तुतत्वेन तत्रा-
भिधायां पर्यवसितायामर्थसौन्दर्य
बलेनाभिमतार्थव्यक्तिर्ध्वनिरेवेति । वस्तु-
-
 

 
[commentary]
 
वेश्यायामिति च विषयसप्तमी । तद्विषय इत्यर्थः । विटानां सर्वस्खाहरणे यः
संकल्पस्तेन दुःप्रापेति वेश्याविशेषणम् ॥ अन्येति ॥ हे भृङ्ग, अन्यासूपमर्दक्षमासु
सुमनसां पुष्पाणां लतासु तावद्यावन्नवमल्लिकायाः कलिका संजातरजस्का भवति ।
लोकं चपलं मनो विनोदय । लोकमिति क्रियाविशेषणं वा । नवमल्लिकाया लता-
विशेषस्य बालामभिनवामसंजातरजस्कां कलिकामकाले व्यर्थं किमिति कदर्थय-
सि पीडयसीत्यन्वयः । रजः पुष्परजः स्त्रीणां रेतश्च ॥ शृण्वतीति ॥ एतद्व-
चनं शृण्वति सतीत्यर्थः ॥ कोशेति ॥ इयं नलिनी कमलिनी कोशद्वन्द्वं मुकु-

लयुगलं कादम्बस्य हंसस्य चञ्चवा क्षतं कृतक्षतं दधाति धत्ते, तथेयं चूतस्याम्र-
स्य लता नूतनं पल्लवं पुंरूपैः कोकिलैराखादितं चर्वितं धत्ते इति दीर्घिकाया वा
प्यास्तटे मिथः परस्परं सखीजनस्य वच आकर्ण्य सा प्रस्तुता नायिका कमल-
मुकुलाम्रपल्लवव्याजेनैता मदीयस्तनाधरक्षतवृत्तान्तं कथयन्तीति ज्ञात्वा चैलस्य
वस्त्रस्यान्तेन प्रान्तेन स्तनतटं तिरोदधे, बिम्बरूपमघरं च पाणिना तिरोदध
आच्छादितवतीत्यन्वयः ॥ अन्यापदेशेति ॥ अन्यस्यापदेशो मिषं यत्र तादृ-
शमित्यर्थः । तदीयमेव ग्रन्थं दर्शयति- अप्रस्तुतेत्यादि । व्यवस्थापित-