This page has been fully proofread twice.

कार्यनिबन्धनाप्रस्तुतप्रशंसायामुदाहृतानि प्राचीनैः । वस्तुतस्तु तदतिरेकेणापि न दोषः । नह्यप्रस्तुतप्रशंसायां प्रस्तुताप्रस्तुतयोः पञ्चविध एव संबन्ध इति नियन्तुं शक्यते । संबन्धान्तरेष्वपि दर्शनात् । यथा --
 
तापत्रयौषधवरस्य तव स्मितस्य
निःश्वासमन्दमरुता निबुसीकृतस्य
एते कडङ्गरचया इव विप्रकीर्णा
जैवातृकस्य किरणा जगति भ्रमन्ति ॥
 
अत्र ह्यप्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरूपदिव्यौषधधान्यविशेषकडङ्गरचयस्योत्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः प्रतीयते । नच धान्यकडङ्गरचययोः कार्यकारणभावादिसम्बन्धोऽस्ति । अतः सहोत्पत्त्यादिकमपि सम्बन्धान्तरमाश्रयणीयमेव । एवमुपमानोपमेयावाश्रित्य अत्र कविकल्पितकार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्यत्रापि दृश्यते । यथा --
 
कालिन्दि ब्रूहि कुम्भोद्भव जलधिरहं नाम गृह्णासि कस्मा-
च्छत्रोर्मे नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः ।
मालिन्यं तर्हि कस्मादनुभवसि मिलत्कज्जलैर्मालवीनां
नेत्राम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः ॥
 
अत्र किमासां समजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टे तत्प्रियमरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभिहृहितमिति कारणनिबन्धना । मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते
 
[commentary]
 
()ज्ञानमात्रात्कार्योत्पत्तेरित्यस्वरसादाह -- वस्तुतस्त्विति ॥ तदतिरेके तस्याः प्राचीनोदाहृताप्रस्तुतप्रशंसाया अतिरेके प्रकारपञ्चकाधिक्ये ॥ तापेति ॥ हे हरे, तव निःश्वासरूपमन्दमारुतेन निबुसीकृतस्य बुसरहितीकृतस्य स्मितरूप()स्याध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाः कडङ्गरचयाः बुससमूहा इवैते
जैवातृकस्य चन्द्रस्य किरणा जगति भ्रमन्तीत्यन्वयः ॥ तत्सारतारूप: किरण()सारतारूपः ॥ एवमिति ॥ हृतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेयपदार्थावाश्रित्य चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणत्वम् । ()वमन्येष्वपि द्रष्टव्यम् ॥ कालिन्दीति ॥ नर्मदायाः समुद्रस्य च संवादोऽयम् । त्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतं नर्मदाया उत्तरं -- हे कुम्भोद्भवागस्त्यमुने ब्रूहीति । ततः पुनः समुद्रस्य प्रतिवचनं -- अहं जल()धिर्भवामि मम शत्रोर्नाम कस्माद्धेतोगृहासीति । सा पुनराह नर्मदाहमित्यादि । ततः समुद्रः पुनराह तर्हि कुतो मालिन्यमनुभवसीति । सा पुनराह मिल()त्कज्जलैर्मालवदेशाङ्गनानां नेत्राश्रुभिरिति । ततः किमासां जातमिति समुद्रस्य