This page has been fully proofread once and needs a second look.

प्रस्तुतप्रशंसालंकारः२७] अलंकारचन्द्रिकासहितः ।
 
८३
 
कार्य
कार्यनिबन्धना प्रस्तुतप्रशंसायामुदाहृतानि प्राचीनैः । वस्तुतस्तु तदतिरेके-
पिन दोषः । नानह्यप्रस्तुतप्रशंसायां प्रस्तुता प्रस्तुतयोः पञ्चविध एव संबन्ध
ति नियन्तुं शक्यते । संबन्धान्तरेष्वपि दर्शनात् । यथा -
 
-
 
तापत्रयौषधवरस्य तव स्मितस्य .
 

निःश्वासमन्दमरुता निबुसीकृतस्य

एते कडङ्गरचया इव विप्रकीर्णा
 

जैवातृकस्य किरणा जगति भ्रमन्ति ॥
 

 
अत्र ह्यप्रस्तुतानां चन्द्रकिरणानां भगवन्मन्दस्मितरूपदिव्यौषधधान्य वि
ष- कडङ्गरचयस्योत्प्रेक्षणेन भगवन्मन्दस्मितस्य तत्सारतारूपः कोऽप्युत्कर्षः
तीयते । नच धान्यकडङ्गरचययोः कार्यकारणभावादिसंसम्बन्धोऽस्ति । अतः
होत्पत्त्यादिकमपि संसम्बन्धान्तरमाश्रयणीयमेव । एवमुपमानोपमेयावाश्रित्य
त्र कविकल्पित कार्यकारणभावनिबन्धने अप्रस्तुतप्रशंसे दर्शिते । ततोऽन्य-
पि दृश्यते । यथा -
 
——
 
-
 
कालिन्दि ब्रूहि कुम्भोद्भव जलधिरहं नाम गृह्णासि कस्मा-

च्छत्रोमेंर्मे नर्मदाहं त्वमपि वदसि मे नाम कस्मात्सपत्न्याः ।

मालिन्यं तर्हि कस्मादनुभवसि मिलत्कज्जलैर्मालवीनां
 

नेत्राम्भोभिः किमासां समजनि कुपितः कुन्तलक्षोणिपालः ॥

 
अत्र किमासां समजनीति मालवीनां तथा रोदनस्य निमित्ते पृष्टे तत्प्रि-
मरणरूपनिमित्तमनाख्याय कुपितः कुन्तलक्षोणिपाल इति तत्कारणमभि-
हृतमिति कारणनिबन्धना । मालवान्प्रति प्रस्थितेन कुन्तलेश्वरेण किं ते
 
-
 

 
[commentary]
 
नमात्रात्कार्योत्पत्तेरित्यस्वरसादाह -- वस्तुतस्त्विति ॥ तदतिरेके तस्याः
चीनोदाहृता प्रस्तुत- प्रशंसाया अतिरेके प्रकारपञ्चकाधिक्ये ॥ तापेति ॥ हे
रे, तव निःश्वासरूपमन्दमारुतेन निबुसीकृतस्य बुसरहितीकृतस्य स्मितरूप-
गध्यात्मिकादितापत्रयौषधश्रेष्ठस्य विप्रकीर्णाः कडङ्गरचयाः बुससमूहा इवैते
वातृकस्य चन्द्रस्य किरणा जगति भ्रमन्तीत्यन्वयः ॥ तत्सारतारूप: किरण-
रतारूपः ॥ एवमिति ॥ हृतसारमित्युदाहरणे चन्द्रवदने उपमानोपमेय-

दार्थावाश्रित्य चन्द्रसारांशहरणस्य सतः कविप्रौढोक्तिकल्पितं कारणत्वम् ।
वमन्येष्वपि द्रष्टव्यम् ॥ कालिन्दीति ॥ नर्मदायाः समुद्रस्य च संवादोऽयम् ।
त्र यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतं नर्मदाया उत्तरं -
- कुम्भोद्भवागस्त्यमुने ब्रूहीति । ततः पुनः समुद्रस्य प्रतिवचनं -- अहं जल-
र्भवामि मम शत्रोर्नाम कस्माद्धेतोगृहासीति । सा पुनराह नर्मदाहमित्यादि ।
तः समुद्रः पुनराह तर्हि कुतो मालिन्यमनुभवसीति । सा पुनराह मिल-

ज्जलैर्मालवदेशाङ्गनानां नेत्राश्रुभिरिति । ततः किमासां जातमिति समुद्रस्य
 
-
 
-