This page has been fully proofread once and needs a second look.

श्रीः ।
चन्द्रालोकः ।
 
प्रथमो मयूखः १
श्रीगणेशाय नमः |
 
उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव-
ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे ।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका
सां नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १ ॥
 
हंहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा-
न्रेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव ।
उल्लासाय विचारवीचिनिचयालंकारवारांनिधे-
श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ॥ २ ॥
 
युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत-
क्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जग-
ज्जाग्रद्भास्वरपद्मकेसरशयः शीतांशुरस्माद्बुधाः ॥ ३ ॥
 
तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गतं स्तुमः ।
यं निपत्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४ ॥
 
नाशङ्कनीयं पूर्वेषां मतमेतेन दूष्यते ।
किंतु चक्षुर्मृगाक्षीणां कज्जलेनैव भूष्यते ॥ ५ ॥
 
काव्यहेतुमाह --
 
प्रतिभैव श्रुताभ्याससहिता कवितां प्रति ।
हेतुर्मृदम्बुसंबद्धबीजव्यक्तिलतामिव ॥ ६ ॥
 
काव्यलक्षणमाह --
 
निर्दोषा लक्षणवती सरीतिर्गुणभूषिता ।
सालंकाररसानेकवृत्तिर्वाक्काव्यनामभाक् ॥ ७ ॥
 
अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८ ॥
 
विभत्त्युत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते ।
रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा ॥ ९ ॥
 
अव्यक्तयोगनिर्योगयोगाभासैत्रिधाग्रिमः ।