2023-04-28 14:29:34 by Bharadwajraki
This page has been fully proofread twice.
श्रीः ।
चन्द्रालोकः ।
प्रथमो मयूखः १
श्रीगणेशाय नमः |
उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्गैरव-
ध्वंसं हस्तयते च या सुमनसामुल्लासिनी मानसे ।
धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका
सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु ॥ १ ॥
हंहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसा-
न्रेरे स्वैरिणि निर्विचारकविते मास्मात्प्रकाशीभव ।
उल्लासाय विचारवीचिनिचयालंकारवारांनिधे-
श्चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ॥ २ ॥
युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत-
क्षीराम्भोधिरगाधतामुपदधत्सेव्यः समाश्रीयताम् ।
श्रीरस्मादुपदेशकौशलमयं पीयूषमस्माज्जग-
ज्जाग्रद्भास्वरपद्मकेसरशयः शीतांशुरस्माद्बुधाः ॥ ३ ॥
तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गतं स्तुमः ।
यं निपत्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥ ४ ॥
नाशङ्कनीयं पूर्वेषां मतमेतेन दूष्यते ।
किंतु चक्षुर्मृगाक्षीणां कज्जलेनैव भूष्यते ॥ ५ ॥
काव्यहेतुमाह --
प्रतिभैव श्रुताभ्याससहिता कवितां प्रति ।
हेतुर्मृदम्बुसंबद्धबीजव्यक्तिर्लतामिव ॥ ६ ॥
काव्यलक्षणमाह --
निर्दोषा लक्षणवती सरीतिर्गुणभूषिता ।
सालंकाररसानेकवृत्तिर्वाक्काव्यनामभाक् ॥ ७ ॥
अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृति ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ॥ ८ ॥
विभत्त्युत्पत्तये योग्यः शास्त्रीयः शब्द उच्यते ।
रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा ॥ ९ ॥
अव्यक्तयोगनिर्योगयोगाभासैस्त्रिधाग्रिमः ।