This page has been fully proofread once and needs a second look.

राजा-- मां चिन्तयन्त्यनुकलं दरमीलिताश्री
रोमञ्चकञ्चुकितकोमलगात्रयष्टि:।
निःश्वासवेगमलिनाधरबिम्बपार्श्वा
सुप्तेव मत्प्रियतमा किमु मूर्च्छितास्ते॥
 
(इति चक्षुर्तिमील्य मौनमालम्बते।)
नाग-- हा कष्टं पुनरपि वत्सो मूर्च्छतीव (बहिर्निर्गत्य
नागह्रदसमीपे स्त्रियं काञ्चिदायान्तीमालोक्य) इयमिदानीं
केति न ज्ञायते। वत्साय फणावत्यायातीति ब्रवीमि। क्षणं
वापि स सन्तुष्यतु। (प्रक्रम प्रविश्य) वत्स दूरे फणावती समायाति।
 
राजा-- (कर्णं दत्वा) किं कुमुद्वतीसकाशात् फणावती समायाति।
 
नाग-- तथा पश्यामि।
 
राजा-- त्वरितमाहूमताम्।
 
नाग-- (स्वगतम्) वत्सस्य तावन्मूर्च्छा परिहृता। भवतु द्रक्ष्याम:।
(प्रकाशम् किञ्चिदभिगम्य[^1] समीपे तां पश्यन्ती सानन्दम्) इयं
सा फणावत्येव। अहं
 
[^1]T2- अभिगत्य