This page has been fully proofread once and needs a second look.

धारणीयमेव। कुत्र तन्निर्माल्यमाल्यम्। (उत्थाय नागरिकादर्शितं
यत्किञ्चिन्निर्माल्यमाल्यं गृहीत्वा वक्षसि निक्षिपति।)
 
राजा-- माल्यं हि शिरसा धारणीयम्।
(विदूषक: तथा करोति।)
राजा—नागरिके नेयमस्य प्रवृत्तिरारोपिता। स्वभावकृतैव।
न ह्ययमनृतं जातुचिद्वेद। किं तु मदमस्यैष
महिमा--
उचितज्ञस्तदज्ञो वा निःस्पृहः सस्पृहोऽपि वा।
आब्रह्मकीटमस्याज्ञा चित्तविभ्रमकारिणी॥२३॥
 
तदास्तामेतत्। मयेदानीं लब्धमपि जीवनं निष्फलमिति
प्रतीयते। नागरिके अपि विचारितं कुमुद्वती जीवति वा न वेति।
 
नाग-- अद्य प्रातरेव हि मया सागरिकामुखाद् वृत्तान्तः श्रुतः।
तदा कुमुद्वती शङ्खपालगृहे सह सखीभिर्यथापुरं वर्तत इति
श्रुतम्। तदनन्तरप्रवृत्तिश्च ज्ञास्यते