This page has not been fully proofread.

+
 
116
 
राजा - सत्यमेवैतत् । मम हि त्वं दक्षिणों बाहरसि । किन्तु
बस न बलमस्तीति बलिना दुर्बला हन्यन्ते ।
सत्यपराधे सबलोऽपि शिक्षणीय एवं। देहश्च
देहिनामखिलरोगाकर एव । तन्निमित्तं च सम्य-
गुपलभ्य तत्प्रतीकाराय प्रवर्तितव्यं समये
प्रवर्तमाने। समय च नागरिका जानाति ।
विदू - (उत्तरीयाञ्चलगृहीतां चीटिकामादाय) इयमंघ
नागरिकादत्ता चीटिका) (इति ताँ राज्ञो हस्ते समर्पमति )
राजा- (अपवार्य चीटिकां वाचयन कुमुद्धती निरुद्धेति
बुवापि लवसन्निधानाध्दैर्येण विकारमाच्छाय
प्रकाशम्) किमेतेन ? इति चीटिकां पृष्ठतो
निधाय लवमालोक्य) वत्स परिश्रान्तोऽस्मि
गम्यतामिदानीम् इति लवं विसृज्य विदूषक
पश्मन). माढव्य कोऽयमकाण्डे निरम्भोददम्भो
लिपातः ? पश्य पश्य
 
2. M - महिता