This page has not been fully proofread.

नाम (हड्‌शौ निमील्य क्षणं ध्यात्वा पुनरुन्मीलय सान-
बदम्) सागरिके मा विषाद गम:। उपस्थितं
कल्याणं कुशकुमुत्यो : त्र्यहमध्य एवं विवाहो
भविष्यति । मया हिं कुशस्नेहाद् दिव्यदृशा दृष्टम् ।
तदिह दिनत्रये कुशकुमुदत्योः प्राणधारणमावाभ्यां
साधनीयम् तंत्रापि त्वया कुमुद्धती रक्ष्या। गया
तु वत्सो रक्ष्यते ।
 
I
 
साग - इदानीं क मया विचार्यमाणे दुर्घटमनयों
सङ्कटनमिति प्रतीयते ।
 
नाग - प्रतीयतां तावत ।
 
साग
 
166
 
विद्यटयितुं घटमानं घट्‌यितुमपि दुर्घटं वस्तु
विधिरलमिच्छामात्रान्नहि मोड पि तदन्यसाधनापेक्षः ॥ २॥
तत् सुचित्ता सती कुमुद्वतीमा श्वासयन्ती तथा
च वत्ससमाश्वासनाय तत्सन्देशहारिणीं फणा-
वतीं प्रेषया मयापि कुमुद्वत्यै वत्ससन्देशः फणा-
वतीमुखन कार्यते । गच्छ सावधाना भव ।
तथा। (इति निष्क्रान्ता!)