This page has not been fully proofread.

तृतीयोऽङ्क:
 
(ततः प्रविशतः सागरिका नागरिके1)
नाग-सागरिके किं तब यथापूर न दृश्यते मुखप्रसादः।
साग- राजोपजीविनामीषद्राजकार्य प्रवृत्तित: ।
 
निद्राहारौ न कालेषु सौमनस्य कथा कुतः ॥ २ ॥
नाग-(साश्चर्यम्) हा किमिदमासीत पूर्वेधुरेव हि सर्वं
सुघटितमित्युक्तवत्यास्तव संप्रति किमाकस्मिक
राजकार्यं प्रसक्तम् ।
 
साग - न प्रसक्तमात्रं तत् । प्रकृतकार्यं विघंटय्य रूढ -
मूलमासीत् ।
 
नाग- (सोवेगम्) हा हतास्मि । कथं विघटितम् ? तद् ब्रूहि
साग- पूर्वेधुरागतः कञ्चुकी निसर्गतो दुर्विदग्धः । सहि
क्षणं कुमुद्धतीदर्शना भावमात्रेण माढव्यस्य कन्य-
काप्रदानेन च कुमुवती कुशानुरक्तेति नागलोके
सर्वत्र घोषयति स्म दुर्विदग्धः। तच्च शङ्खपालो
विज्ञाय राज्ञे कुमुदाय विज्ञापयांचक्रे । कुमुद्रोऽजी
 
220 72 - विघटीय
B.M, Tis Tic omit दुर्विदग्धः
 
1. Tz.. reading corrupt
 
166