This page has not been fully proofread.

*
 
साग - फणावति क्षणं प्रतिपालय अहं तु कुमुद्वतीहस्तेन
पुष्पाण्यपचाय्यागच्छामि।
 
(इति कुमुहत्या संह बहिर्निर्गत्य तथा गुष्पापचयं काश्यन्ती
राजसमीप कुमुद्धतीं नयति!)
 
राजा (सन्निहितां कुमुद्धतीमालोक्य स्वगतम्)
किं वाभिगम्य परिरम्भमहं करोमि
किं वा पिबेयमधरामृतमानताङ्‌माः
किं वाधिरोप्य रथमाशु गृहं नयामि
कान्ताभिमां भ्रमति मे हृदयं विमूढम् ॥ ३३॥
 
-
 
अपिच
 
किं चेन्द्रि केयमिह शारदपूर्णिमेन्दोः
किं वा सुधालहरिदेव दिवश्युतेयम् ।
किं मन्नयस्य भुवनत्रयजैत्रलक्ष्मीः
किं वा ममैव धुरि जीवकला विरासीत् ॥ ३२॥
(धैर्यमालम्ब्य प्रकाशम्) नागरिक किमत कर्तव्यमस्माभिः।
विदू- माढण्वस्स पोम्मावदि देअत्ति पत्थणिज्जा एसा ।
[माढव्यस्य पद्मावती देयेति प्रार्थनीया एषा]]
राजा - वयनित्यनेन समयानभिज्ञेन बाध्यामहे ।
नाग- क्षणमितोऽपि वत्स मा त्वरस्व । धैर्यमवलम्बतां भवान् ।
त्व. समीपमेव सागरिका चतुर मिमामानयति ।
 
2.72 - चन्द्रिकेन्थ