This page has been fully proofread once and needs a second look.

कात्यायन्या निजेन सूक्ष्मदर्शिनीत्वेन उभया[^1]नुरागानुरूपं
मम निजकन्यकादानं प्रतिज्ञातम्।]
 
राजा-- हन्त त्वमपि मन्दं स्मरवागुरालग्नोऽसि।
 
विदू-- वअस्स सच्चं इयन्तं काळंवि तुमं अहीरोत्ति मे हिअअं।
अज्ज तुमं धीरेसु मुद्दण्णोसि। [वयस्य सत्यमियन्तं
कालमपि त्वमधीर इति मे हृदयम्। अद्य त्वं धीरेषु
मूर्धन्योऽसि।]
 
राजा—कथमिव?
 
विदू—फणिराअकण्ण[^2] आत्थी पस्ससि काळेसु राअकज्जाणि।
भिच्छु अकण्णाकामो सन्झाकम्मं वि विम्ह[^3]रामि अहं॥१०॥
 
अविअ
अइसरिअं सुंदेरण्णं णत्थिगुणोअत्थिकोणुसे[^4] अवरो।
तह वि किळ कण्णअं तं दट्ठूण वसंगओम्हि कामस्स॥११॥
[फणिराजकन्यकार्थी पश्यसि कालेषु राजकार्याणि।
भिक्षुककन्याकाम: सन्ध्याकर्मापि विस्मराम्यहम्॥
 
अपि[^5] च
ऐश्वर्यं सौन्दर्यं नास्ति गुणोऽस्ति कोन्वस्या अपर:।
तथापि किल कन्यकां तां[^6] दृष्ट्वा वशंगतोऽस्मि कामस्य॥
 
[^1] All mss. omit उभयानुरागानुरूपं
[^2]M- कण्णओत्थि
[^3]TC- विसुमरिआमि
[^4]Tc has अस्स for से
[^5] All mss. omit अपि च
[^6]M omits तां