This page has been fully proofread once and needs a second look.

नाग-- तत्रापि कृत उपाय:। सा परमेका त्वां द्रक्ष्यति ।
 
राजा-- सर्वं सुघटितम्। इद्मन्यत् पश्य पश्य-
कालमियन्तमपीदं कुमुद्वती दर्शनं काङ्क्षत्।
संप्रति सन्निहितेऽस्मिन् उपरि च मच्चित्तमीहते चित्रम् ॥१॥
 
नाग-- यत्साध्यमुपायैस्तत्सिद्धमुपधारय।
 
राजा-- त्वयावलम्बितस्य मम किमसाध्यं त्रिषु लोकेष्वपि ?
 
विद्र-- भअवदि मह बम्हणस्सवि कज्ज तुए अवलंबणिज्जम्
[भगवति मम ब्राह्मणस्यापि कार्यं त्वयावलम्बनीयम्।
 
नाग-- किं तक वा साधनीयं कार्यम् ?
 
विदू-- जं बन्हचारिणो अहिळसंति। [यदब्रह्मचारिणोऽभि-
लषन्ति।]
 
राजा-- निवृत्तस्य वर्णिनश्चतुर्थ आश्रमः। प्रवृत्तस्य तु द्वितीयः।
त्व मनयो: कतरो[^1] असि ?
 
विदू-- कनेण[^2] एण्व नं पवुत्तं णिवुत्तं अ जाणीहि [क्रमेणैव मां प्रवृत्तं निवृत्तं च जानीहि।]
 
नाग-- विवाहरूपं कार्यमिति निर्दिष्टम्।
राजा-- को अयमकाण्डे माढव्य तव विवाहः संप्राप्तः ?
 
[^1] All mss read कतमः

[^2]M, T1- क्रमेगण्व T2- कनेणंव