This page has not been fully proofread.

नाग- (सर्वतो निर्वर्ण्य ) दिव्यजनसञ्चार योग्योऽयं प्रदेशः ।
तथाहि
 
पश्येतः परितः स्रवन्ति सरयूवेण्यः प्रसन्नोदका --
स्ता एता निकषा कदम्बवकुळ प्रच्छायशीताः शिलाः ।
पर्यन्तेषु ललागृहाच सिकतापूर्णा विकीर्णा नवै:
पुष्पै कल्पशतस्थितेरपि दिवि श्लाघ्योऽन वासः क्षणम् ॥६॥
विदू - सच्चं एव्व एदं । जइ एत्य मोंद आस्सण्णि हिदा। [सत्यमेवैतत् ।
यद्यत्र मोदका: सन्तिहिता: 1]
राजा- तव तथैव । मम तु -
 
आयान्ती मदमन्थर प्रियसखीहस्तावलम्बालसां
स्वैशलापकृत स्मितां सललितं संप्रेक्षमाणां पुरः ।
पश्येयं यदि पश्यतः परिणमत्तारुण्यसारश्रियं
तामस्मिन सरयूतटे समृदपि श्रेयः किमस्मादपि ॥७॥
नाग- अद्य ते कुमुद्धती दर्शनमचिरादेव भविष्यति । कृतमत्र संशयेन ।
एषा हि सूक्ष्मदर्शिनी कन्यका द्वितीया कुमुद्वतीं प्रतिपालय
वर्तते । सा किल ब्राह्मणकात्यायनी योगनिष्ठेति कुमुद्धृत्याः
परनविश्वासभाजनम् समीप एवं सा तरुतिरोहितास्ते।
राजा - (सकुतूहलम्) माढव्य तत्र गच्छता भवता तत् संभाषणेन
कुमुदतीप्रवृत्तिरूपलभ्या ।
 
1.70 परमं 72 परं
 
*. Tr. omits from प्रसन्नोदका: till पुष्पैः
 
137
 
-