This page has been fully proofread once and needs a second look.

हैं
 
Y
 
(ततः प्रविशति सागरिका द्वितीया नागरिकां1)
नाग- सखि सागरिक कुमुद्धती प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त
तत्र किं विलम्बसे!
 
 
(ततः प्रविशति सागरिकाद्वितीया नागरिका।)
नाग-- सखि सागरिके कुमुद्वती प्रवृत्तिरधिगन्तव्येति मया पूर्वमुक्त
तत्र किं विलम्बसे।
 
साग-- सा प्रवृत्तिरधिगता। कुमुद्वती च वशीकृता।
 
नाग-- (सानन्दं स्वहस्तेन तस्या हस्तं ताड्यन्ती) सागरिके
जितमस्माभिः। कथय कथय की दृशः प्रकार:।
 
साग-- फणावती हारविचारणाय मदन्तिकं प्रत्यहमायाति तन्मुखेन
हारप्रवृत्तिमुपदिशन्तीव कुमुद्वतीसमीपं गतास्मि। तस्यै[^*] च
हारमदत्वैव पञ्चषदिनेष्वेव हारं त्वां प्रापयिष्यामीति वदन्त
प्रत्यहमपि तत्र गत्वा तस्या: सखीषु मूर्धन्यास्मि[^*]।
 
नाग-- जडाहनित्युक्तवत्या कियत् साधितं भवत्या। ततस्ततः--
 
साग-- सा च तव प्रासादे ज्योत्स्नाविहाराय गता। तत्र प्रतिमागतं
वत्समालोक्य तदाप्रभृति महान्तं मदनातङ्कमनुभवति। मया
च तद्विज्ञायशिल्पिभिः कारितं वत्सस्य चित्रपटं तस्यै
रहस्यमर्पितम्। ततश्च सा मयि परमं विस्रम्भमादधाना
सानन्दं चित्रपटमादाय मयि पश्यन्त्यामेव-

पश्यन्ती प्रणयार्धकूणितदृशा मन्दस्मितं कुर्वती
चुम्बन्तीव मुखे मुखं निदधती जलपन्त्यनलपं वचः।
धृत्वा दर्पणमग्रस्तदुदरे चित्रं स्वमप्युत्सुका
दर्शं दर्शमहो चकार कति सा ज्ञाता न ता विक्रियाः॥३॥
 
[^*] T2- omits from तस्यै to मूर्धन्यास्मि